अध्यायः 141

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रत्यसाधुभ्यः प्रतिग्रहस्य निन्द्यत्वे प्रमाणतया सप्तर्षिवृषादर्भिसंवादानुवादः ॥ 1 ॥ वृषादर्भिणा राज्ञा कश्यपादिसप्तर्षिभि- स्वस्मात्प्रतिग्रहनिराकरणे तज्जिघांसया कृत्योत्पादनम् ॥ 2 ॥ तन्नामार्थपरिज्ञानेन तद्वधं चोदितया कृत्यया वने तत्समीपम्प्रति गमनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च ।
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह ॥
भीष्म उवाच ।
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः ।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः ।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥
सर्वेषामथ तेषां तु गण्डाभूत्परिचारिका ।
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् ।
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम् ॥
अथाभवदनावृष्टिर्महती कुरुनन्दन ।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना । दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रोऽनिलः किल
अस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभुः ।
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः । अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः ।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः ।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥
वृषादर्भिरुवाच ।
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् ।
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः ॥
`प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता । तस्माद्ददामि वो वित्तं तद्वृणुध्वं तपोधनाः ॥'
प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् ।
धेनूनां दद्यामयुतं समग्र- मेकैकशः सवृषाः सम्प्रसूताः ॥
अश्वांस्तथा शीघ्रगाञ्श्वेतरूपां- न्मनोजवान्प्रददाम्यर्बुदानि ।
कुलम्भराननडुहः शतं शता- न्धुर्याञ्श्वेतान्सर्वशोऽहं ददामि । प्रष्ठौहीनां पीवराणां च ताव- दग्र्या गृष्टीर्धेनवः सुव्रताश्च ॥
वरान्ग्रमान्व्रीहिरसं यवांश्च रत्नं चान्यद्दुर्लभं किं ददानि ।
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै ॥
ऋषय ऊचुः ।
राजन्प्रतिग्रहो राज्ञं मध्वास्वादो विषोपमः ।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥
`दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥
दशसूनासहस्राणि यो वाहयति सौनिकः । तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः ॥'
क्षेत्रं हि दैवतमिव ब्राह्मणान्समुपाश्रितम् ।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥
अह्नायेह तपो जातु ब्राह्मणस्योपजायते ।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥
कुशलं सह दानेन राजन्नस्तु सदा तव ।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा तेन्यतो ययुः ॥
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम् ।
अथ हित्वा ययु सर्वे वनमाहारकाङ्क्षिणः ॥
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः ।
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे ॥
`दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन् ॥'
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् ।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत् ।
नास्मेह मन्दविज्ञाना नास्म मानुषबुद्धयः ॥
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम । इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम् ।
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना ॥
वसिष्ठ उवाच ।
शतेन निष्कगुणितं सहस्रेण च सम्मितम् ।
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम् ॥
कश्यप उवाच ।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥
भरद्वाज उवाच ।
उत्पन्नस्य रुरोः शृङ्गं वर्दमानस्य वर्धते ।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥
गौतम उवाच ।
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत् ।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥
विश्वामित्र उवाच ।
कामं कामयमानस्य यदा कामः समृध्यते ।
अथैनमपरः काम इष्टो विध्यति बाणवत् ॥
`अत्रिरुवाच ।
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥'
जमदग्निरुवाच ।
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥
अरुन्धत्युवाच ।
धर्मार्थं सञ्चयो यो वा द्रव्याणां पक्षसम्मतः ।
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥
चण्डोवाच ।
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः ।
बलीयसो दुर्बलवद्बिभेम्यहमतः परम् ॥
पशुसस्व उवाच ।
यद्वै धर्मात्परं नास्ति तादृशं ब्राह्मणा विदुः ।
विनयात्साधु विद्वांसमुपासेयं यथातथम् ॥
ऋषय ऊचुः ।
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः ।
फलान्युपधियुक्तानि य एवं नः प्रयच्छति ॥
भीष्म उवाच ।
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते ।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥
अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन् । उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै ।
ततोऽन्यत्रैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह ।
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥
स गत्वाऽऽहवनीयेऽग्नौ तीव्रं नियममास्थितः ।
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः ॥
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी ।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।
वृषादर्भि नरपतिं किं करोमीति चाब्रवीत् ॥
वृषादर्भिरुवाच ।
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च ।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय ।
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव ॥
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी ।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥

7-141-3 वृषा दर्वेश्च संवादमिति थ.ध.पाठः ॥ 7-141-5 गण्डाभूत्कर्मकारिकेति झ.पाठः । गण्डा नामतः ॥ 7-141-9 दिष्टान्तं मरणम् ॥ 7-141-11 आत्मानं शरीरं परीप्सवः रक्षितुकामाः । निरन्ने मर्त्यलोकेऽस्मिन्निति झ.पाठः ॥ 7-141-13 पुष्टिः पुष्टिहेतुः । तच्छृणुध्वं तपोधना इति ट.थ.ध.पाठः ॥ 7-141-30 प्रतीच्छन् प्रतिगृह्णन् ॥ 7-141-32 तस्य लाभसुखस्य मात्रा इयत्ता ॥ 7-141-36 तद्धनं तपोधनम् ॥ 7-141-37 पक्षसम्मतः पाक्षिकत्वेन मतः ॥ 7-141-39 यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुरिति झ.पाठः । यत् यतो हेतोः । वैधर्मे विधर्म एव वैधर्मः तस्मिँलोभादिदोषे सति परं उत्कृष्टं पदं नास्ति न लभ्यतेऽतस्तदलोभाख्यमेव धनं ब्राह्मणा विदुः ॥ 7-141-40 उपधिश्छलम् । कश्मलाधमदानाय प्रतियत्नः प्रजाधमाः । फलान्युपधियुक्तानि यत्र यः सम्प्रच्छतीति थ.ध.पाठः ॥ 7-141-47 नाम नाम्नोर्थम् ॥ 7-141-48 ज्ञात्वा नामानुरूपं तेषां सामर्थ्यं परीक्ष्य तान् विनाशय । अन्यथा त्वामेव ते विनाशयिष्यन्तीति भावः ॥

श्रीः