अध्यायः 150

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति पुरुषस्य मृतिसूचकलिङ्गैः स्वमरणनिश्चयेन भगवत्स्मरणादिपूर्वकं देहत्यागे स्वर्गभोगप्रकारस्य सुकृतशेषेण पुनर्भूलोके जननादिप्रकारादेश्च कथनम् ॥ 1 ॥

`पराशर उवाच ।

शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत् ।
त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् ॥
षाण्मासिकं मासिकं वा साप्तरात्रिकमेव वा ।
सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लभयेत् ॥
पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम् ।
लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत् ॥
शुद्धमण्डलमादित्यमरश्मिं सम्प्रपश्यतः ।
संवत्सरद्वयेनैव तस्य मत्युं समादिशेत् ॥
ज्योत्स्नायामात्मनश्छायां सच्छिद्रां यः प्रपश्यति ।
मृत्युं संवत्सरेणैव जानीयात्सुविचक्षणः ॥
विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः ।
जानीयादात्मनो मृत्युं षाण्मासेनेह बुद्धिमान् ॥
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि ।
जानीयादात्मनो मृत्युं मासेनैव विचक्षणः ॥
शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः ।
देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् ॥
कर्णनासापनयनं दन्यदृष्टिविरागता ।
लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत् ॥
एवमेषामरिष्टानां पश्येदन्यतमं यदि ।
न तं कालं परीक्षेत यथाऽरिष्टं प्रकल्पितम् ॥
अभ्यासेन तु कालस्य गच्छेत पुलिनं शुचि ।
तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन् ॥
ततोऽन्यदेहमासाद्य गान्धर्वं स्थानमाप्नुयात् ।
तत्रस्थो वसते विंशत्पद्मानि सुहहाद्युतिः ॥
गन्धर्वैश्चित्रसेनाद्यैः सहितः सत्कृतस्तथा ।
नीलवैडूर्यवर्णेन विमानेनावभासयन् ॥
नभस्थलमदीनात्मा सार्धमप्सरसां गणैः ।
छन्दकामानुसारी च तत्रतत्र महीयते ॥
मोदतेऽमरतुल्यात्मा सदाऽमरगणैः सह ।
पतितश्च क्षये काले क्षणेन विमलद्युतिः ॥
वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने ।
अवाप्य तत्र वै जन्म स पूतो देवकर्मणा ॥
छन्दसा जागतेनैव प्राप्तोपनयनं ततः ।
क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु ॥
अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः ।
ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः ॥
अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् ।
कृतदारः समुपैति गृहस्थव्रतमुत्तमम् ॥
ददाति यजते चैव चज्ञैर्विपुलदक्षिणैः ।
अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधिः ॥
धर्मं सञ्चिनुते नित्यं मृदुगामी जितेन्द्रियः ।
स कालपरिणामात्तु मृत्युना सम्प्रयुज्यते ॥
संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान् ।
संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते ॥
मरुद्भिः सहितश्चापि तुल्यतेजा महाद्युतिः ।
बालार्कसमवर्णेन विमानेन विराजता ॥
सुखं चरति तत्रस्तो गन्थर्वाप्सरसां गणैः ।
विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः ॥
छन्दकामानुसारी च द्विगुणं कालमावसेत् ।
सन्निवर्तेत कालेन स्थानादस्मात्परिच्युतः ॥
अवितृप्तविहारार्थो दिव्यभोगान्विहाय तु ।
सञ्जायते नृपकुले गजाश्वरथसंकुले ॥
पार्थिवीं श्रियमापन्नः श्रीमान्धर्मपतिर्यथा ।
जन्मप्रभृति संस्कारं चौलोपनयनानि च ॥
प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम् ।
छ्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते ॥
अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः ।
समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते ॥
कृतदारक्रियः श्रीमान्राज्यं सम्प्राप्य धर्मतः ।
प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः ॥
यज्ञैर्बहुभिरीजानः सम्यगाप्तार्थदक्षिणैः ।
प्रशासति महीं श्रीमान्राज्यमिन्द्रसमुद्युतिः ॥
स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् ।
कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे ॥
देवराजस्य भवनमिन्द्रलोकमवाप्नुते ।
सम्पूज्यमानस्त्रिदिवैर्विचचार यथासुखम् ॥
राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा ।
तैः स्तूयते बन्दिभिस्तु नानावाद्यैः प्रबोध्यते ॥
दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः ।
वराप्सरोभिः सम्पूर्णं देवगन्धर्वसेवितम् ॥
यानमारुह्य विचरेद्यथा शक्रः शचीपतिः ।
स तत्र वसते षष्टिं पद्मानीह मुदान्वितः ॥
सर्वाँल्लोकाननुचरन्महर्द्धिरवभासयन् । अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत ।
जायते च द्विजकुले वेदवेदाङ्गपारगे ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥

श्रीः