अध्यायः 155

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेणि युधिष्ठिरंप्रति पुष्पधूपदीपदानादिप्रशंसापरबलिशुक्रसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

आलोकदानं नामैतत्कीदृशं भरतर्षभ ।
कथमेतत्समुत्पन्नं फलं वा तद्ब्रवीहि मे ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥
तपस्वी कश्चिदभवत्सुवर्णो नाम भारत ।
वर्णतो हेमवर्णः स सुवर्ण इति विश्रुतः ॥
कुलशीलगुणोपेतः स्वाध्यायोपरमं गतः ।
बहून्सुवंशप्रभवान्समतीतः स्वकैर्गुणैः ॥
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च ।
कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः ॥
ततस्तौ सत्यसंकल्पौ मेरौ काञ्चनपर्वते ।
देवर्षिभिः सदा जुष्टे सहितौ संन्यषीदताम् ॥
तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः ।
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रति ।
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥
सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च ।
किमेतत्कथमुत्पन्नं फलं योगं च शंस मे ॥
मनुरुवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शुक्रस्य च बलेश्चैव संवादं वै महात्मनोः ॥
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः ।
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः ।
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥
कथेयमभवत्तत्र त्वया या परिकीर्तिता ।
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ॥
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ॥
सुमनोधूपदीपानां किं फलं ब्रह्मिवित्तम ।
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥
शुक्र उवाच ।
अग्नीषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभोः ।
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ॥
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च । सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले ।
अमृतं च विषं चैव याश्चान्यास्तृणजातयः ॥
अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च ।
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् ।
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम् ॥
अमृतं मनो ह्लादयते श्रियं चापि ददाति च ।
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।
तस्मै सुमनसो देवास्तस्मात्सुमनसः स्मृताः ॥
यंयमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो ।
मङ्गलार्तं स तेनास्य प्रीतो भवति दैत्यप ॥
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ।
ओषध्यो बहुवीर्या हि बहुरूपास्तथैव च ॥
यज्ञियानां च वृक्षाणामयज्ञीयान्निबोध मे ।
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥
रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः ।
मनुष्याणां पितॄणां च कान्ता यास्त्वनुपूर्वशः ॥
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः ।
अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः ॥
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः ।
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः ।
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥
`पद्मं च तुलसी जातिरापः सर्वेषु पूजिता ।' जलजानि च माल्यानि पद्मादीनि च यानि वै ।
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥
ओपध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः ।
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः ।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः ।
चारुररूपाः सुमनसो मानुपाणां स्मृता विभो ॥
न तु श्मशानसम्भूता न देवायतनोद्भवाः ।
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥
गिरिसानुरुहाः सौम्या देवानामुपधारयेत् ।
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः ।
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत ।
सङ्कल्पसिद्धा मर्त्यानामीप्सिताश्च मनोरथाः ॥
देवाः प्रीणन्ति सततं मानिता मानयन्ति च ।
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥
अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम् ।
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥
निर्यासाः सरलाश्चैव कृत्रिमाश्चैव ते त्रयः ।
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरशः शृणु ॥
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते ।
गुग्गुलुः प्रवरस्तेषां सर्वेपामिति निश्चयः ॥
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् ।
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः ।
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥
देवदानवभूतानां सद्यस्तुष्ठिकरः स्मृतः ।
येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः ॥
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः ।
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् ।
यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥
ज्योतिस्तेजः प्रकाशं वाऽप्यूध्वगं चापि वर्धते ।
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥
अन्धतमस्तमिस्रं च दक्षिणायनमेव च ।
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥
यस्मादूर्ध्वगमे तत्तु तमसश्चैव भेषजम् ।
तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः ॥
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः ।
तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते ॥
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।
तान्दत्त्वा नोपहिंसेन न हरेन्नोपनाशयेत् ॥
दीपहार्ता भवेदन्धस्तमोगतिरसुप्रभः ।
दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥
हविपा प्रथमः कल्पो द्वितीयश्चौषधीरसैः ।
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥
देवालये सभायां च गिरौ चैत्यचतुष्पथे ।
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥
कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ।
ज्योतिषां चैव सालोक्यं दीपदाता भवेन्नरः ॥
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् ।
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः ।
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥
तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम् ।
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥
गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान् ।
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः ॥
बलयः सह पुष्पैस्तु देवानामुपहारयेत् ।
दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः ॥
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् ।
सुरासवपुरस्कारा लाजोल्लापिकभूषिताः ॥
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः ।
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ॥
अग्रदाताऽग्रभोगी स्याद्बलवीर्यसमन्वितः ।
तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम् ॥
ज्वलन्त्यहरहो वेश्म याश्चास्य गृहदेवताः ।
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः ।
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते ।
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

7-155-6 रमणीये शिलापृष्ठ इति झ.पाठः ॥ 7-155-7 स्तां अभवताम् ॥ 7-155-16 तपः वर्णाश्रमधर्मः । धर्मो दयादिः ॥ 7-155-17 लताः ओषध्यो व्रीह्यादयः ॥ 7-155-40 प्रवरस्तेषां घृतमिश्रोऽथ कुञ्जर इति थ.पाठः ॥ 7-155-46 ज्योतिर्दीपादि । तेजः कान्तिः । प्रकाशः कीर्तिः ॥ 7-155-47 तमिस्रं अन्धकारः । अन्धं तमो नाम नरकरूपम् । तथा दक्षिणायनमप्यन्धं तम एव । अत उत्तरायणे रात्रौ तमोनाशकं ज्योतिर्देयं नरकनिवृत्त्यर्थं ॥ 7-155-52 हविषा घृतेन ओषधीरसैः तिलसर्षपादिस्नेहैः । वसामेदोस्थीनि प्राण्यवयवास्तेषां निर्यासाः स्नेहाः । वसादयः पृथग्वा निर्यासात् ॥ 7-155-60 दधिद्रप्सयुताः पुण्या इति ध.पाठः ॥ 7-155-61 लाजोल्लापिकभूषिताः । उल्लापिक उपरिलापनम् ॥

श्रीः