अध्यायः 157

अथ दानधर्मपर्व ॥ 1 ॥

नहुषेणागस्त्यस्य स्वयाने योजनम् ॥ 1 ॥ तथा तेन सह श्रुतिप्रामाण्यविवादे स्वविरुद्धभाषिणोऽगस्त्यस्य मस्तके स्वपादेन ताडनम् ॥ 2 ॥ तदा तज्जटान्तर्निगूढेन भृगुणा शापदानेन तस्याधःपातनम् ॥ 3 ॥ ततो देवैरिन्द्रस्य स्वपदेऽभिषेचनम् ॥ 4 । नहुषस्य स्वकृतपूर्वबलिदीपदानादिजसुकृतमहिम्ना पुनः स्वर्गप्राप्तिः ॥ 5 ॥

युधिष्ठिर उवाच ।

कथं वै स विपन्नश्च कथं वै पातितो भुवि ।
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः ॥
तथैव दीपदानानि सर्वोपकरणानि वै ।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः ॥
सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः ।
देवलोके नृलोके च सदाचारपुरस्कृताः ॥
ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः ।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥
यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते ।
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः ॥
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि ।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते ॥
एवं धूपप्रदानं च दीपदानं च साधवः ।
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम् ॥
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः ॥
पितरश्च महाभागा ऋषयश्च तपोधनाः ।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः ॥
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥
कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते ।
सर्वमेतदवज्ञाय न चकार यथाविधि ॥
ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः । धूपदीपादिकविधिं न यथावच्चकार ह ।
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते ॥
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् । निमीलयस्व नयने जटां यावद्विशामि ते ।
`सुरेन्द्रपतनायेति स च नेत्र न्यमीलयत् ॥'
ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः ।
भृगुः स सुमहातेजाः पातनाय नृपस्य च ॥
ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै । ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते ।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ॥
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ।
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम् ॥
भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम् । न चापि दर्शनं तस्य चकार स भृगुस्तदा ।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै । तं तु राजा पदैकेन चोदयामास भारत ।
`श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट् ॥'
न चुकोप स धर्मात्मा ततः पादेन देवराट् ।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥
यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम् ।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥
शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह ।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा ॥
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥
प्रसादयामास भृगुं शापान्तो मे भवेदिति । ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् ।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥
भृगुरुवाच ।
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत ॥
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप ॥
तदा स पातयित्वा तं नहुषं भूतले भृगुः ।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत् ॥
ततः शक्रं समानाय्य देवानाह पितामहः । वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥
न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित् ।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् ।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप ॥
सोऽभिषिक्तो भगवता देवराज्ये च वासवः ।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः । दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः ।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥
यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः ।
रूपवान्बलवांश्चापि नरो भवति दीपदः ॥
य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः ।
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

7-157-3 वत्सकाः पुत्रादेर्वार्षिकोत्सवाः । यच्चान्यदुत्सेकाश्चेति थ.ध.पाठः ॥ 7-157-20 तं तु राजा प्रतोदेनेति झ.पाठः ॥ 7-157-30 भवनं तेन पुण्येन कर्मणेति थ.ध.पाठः ॥ 7-157-38 रूपवान्धर्मवांश्चापीति ध.पाठः ॥

श्रीः