अध्यायः 158

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरं प्रति ब्रह्मस्वापहारस्यानर्थहेतुताया प्रमाणतया नृपचण्डलसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ ।
नृशंसकारिणो योनिं कां ते गच्छन्ति मानवाः ॥
भीष्य उवाच ।
पातकानां परं ह्येतद्ब्रह्मस्वहरणं बलात् ।
सान्वयास्ते विनश्यन्ति चण्डालाः प्रेत्य चेह च ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनमम् ।
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥
राजोवाच ।
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे ।
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते ।
कस्माद्गोरजसा ध्वस्तमङ्गं तोयेन सिञ्चसि ॥
चण्डाल उवाच ।
ब्राह्मणस्य गवां राजन्प्रयान्तीनां रजः पुरा ।
सोममुद्ध्वंसयामास तं सोममपिबन्द्विजाः ॥
भृत्यानामपि राज्ञस्तु रजसा ध्वंसितं मखे ।
तत्पानाच्च द्विजाः सर्वे क्षिप्रं नरकमाविशन् ॥
दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत् ।
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ।
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधूय तान् ।
पशूनवेक्षमाणश्च साधुवृत्तेन दंपती ॥
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः । तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं नृप ।
ब्रह्मस्वहारी न नृपः सोऽप्रतिष्ठां गतिं ययौ ॥
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन ।
न पश्येन्नानुमोदेच्च न हर्तुं किञ्चिदाहरेत् ॥
ब्रह्मस्वं रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ।
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता ॥
एतद्धि धनमुत्कृष्टं द्विजानामविशेषतः ।
विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः ॥
ये चैनं क्रीणते तात ये च विक्रीणते जनाः ।
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥
सोमं तु रजसा ध्वस्तं विक्रीणन्विधिपूर्वकम् ।
श्रोत्रियो वार्धुषी भूत्वा नचिरं स विनश्यति ॥
नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति । ब्रह्मस्वहारी नरकान्यातनाश्चानुभूय तु ।
मलेषु च कृमिर्भूत्वा श्वविष्ठामुपजीवती ॥
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् ।
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥
म्लानं मां विकलं पश्य विवर्णं हरिणं कृशम् ।
अतिमानेनि मां पश्य पापां गतिमुपागतम् ॥
अहं वै विपुले तात कुले दनसमन्विते ।
पौराणे जन्मनि विभो ज्ञानविज्ञानपारगः ॥
अभवं तत्र जानानो ह्येतान्दोषान्मदात्सदा ।
संरब्ध एव भूतानां पृष्ठमांसमभक्षयम् ॥
सोऽहं वै विदितः सर्वैर्दूरगो वनिनो वने । साधूनां परिभावेप्सुर्विप्राणां गर्वितो धनैः ।
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ॥
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ।
धावमानं सुसंरब्दं फश्य मां रजसाऽन्वितम् ॥
स्वाध्यायैस्तु महात्पापं हरन्ति गृहमेधिनः ।
दानैः पृथग्विधैश्चापि विप्रजात्यां मनीषिणः ॥
तथा पापकृतं विप्रमाश्रमस्तं महीपते ।
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥
अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ ।
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥
जातिस्मरत्वं च मम केनचित्पूर्वकर्मणा ।
शुभने येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥
त्वमिमं सम्प्रपन्नाय संशयं ब्रूहि पृच्छते ।
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥
राजोवाच ।
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि ।
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् ।
हित्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥
भीष्म उवाच ।
इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परन्तप ।
हित्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ ।
यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

7-158-4 रजःसेवी रजोगुण्ठितः ॥ 7-158-5 गोरजसा गोपरागेण प्रचलत्या धेनोरूधसः सकाशात्प्रसरन्त्यः क्षीरविप्रुषोऽत्र परागपर्यायेण रजःपदेनोच्यन्ते । ध्वस्तं व्याप्तं विप्रुण्मात्रेणापि ब्रह्मस्वेन देहस्निग्धत्वं माभूदिति भावः ॥ 7-158-6 रजः क्षीरं कर्तृ मार्गस्थवल्लीरूपं सोममुद्ध्वंसयामास नाशितवत् ॥ 7-158-10 ता गावः परैः पीतेन स्वपयसा तेषां पुत्रपौत्रान् पशून् दम्पती च जघ्नुः सद्योऽल्पायुषश्चक्रुः ॥ 7-158-16 एनं ब्रह्मस्वसृष्टम् ॥ 7-158-19 श्वचर्यां नीचसेवाम् । अतिमानी इतरद्वयापेक्षया अत्यन्तं पापीत्यर्थः । स्वस्वदारेषु विप्लवमिति ध.पाठः ॥ 7-158-22 भूतानामुपरि सदा संरब्द एव कुपित एवेत्यन्वयः ॥ 7-158-24 भ्रमरैस्तीक्ष्णतुण्डैरर्द्यमानमिव चेलान्तवद्दह्यमानमिव क्लिश्यन्तं मां पश्य । आदीप्तमिव चालातमिति थ.पाठः ॥

श्रीः