अध्यायः 163

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेणि युधिष्ठिरंप्रति पक्षमासोपवासफलप्रतिपादकाङ्गिरोवचनानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

सर्वेषामेव वर्णानां म्लेच्छानां च पितामह ।
उपवासे मतिरियं कारणं च न विद्महे ॥
ब्रह्मक्षत्रेण नियमाः कर्तव्या इति नः श्रुतम् । उपवासे कथं तेषां कृतमस्ति पितामह ।
नियमांश्चोपवासांश्च सर्वेषां ब्रूहि पार्थिव ।
आप्नोति कां गतिं तात उपवासपरायणः ॥
उपवासः परं पुण्यं पवित्रमपि चोत्तमम् ॥
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥
अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम् ।
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥
उपोष्य चापि किं तेन प्रयोज्यं स्यान्नराधिप ।
धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि मे ॥
वैशम्पायन उवाच ।
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् ।
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥
इदं खलु महाराज श्रुतमासीत्पुरातनम् ।
उपावासविधौ श्रेष्ठा गुणा ये भरतर्षभ ॥
प्राजापत्यमाङ्गिरसं पृष्टवानस्मि भारत ।
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥
प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः ।
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥
अङ्गिरा उवाच ।
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन ।
द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ ॥
वैश्याः शूद्राश्च यन्मोहादुपवासं प्रकुर्वते ।
त्रिरात्रं वा द्विराइत्रं वा तयोर्व्युष्टिर्न विद्यते ॥
चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते ।
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥
पञ्चम्यां वाऽपि षष्ठ्यां च पौर्णमास्यां च भारत ।
उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः ॥
क्षमावान्रूपसम्पन्नः सुरभिश्चैव जायते ।
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ॥
यजिष्णुः पञ्चमीं षष्ठीं कुले भोजयते द्विजान् । अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम् ।
उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥
मार्गशीर्षं तु वै मासमेकभक्तेन यः क्षिपेत् ।
भोजयेच्च द्विजाञ्शक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः ।
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत् ।
सुभगो दर्शनीयश्च यशोभागी च जायते ॥
पितृभक्तो माघमासं यः क्षिपेदेकभोजनः ।
श्रीमत्कुले ज्ञातिमध्ये सुभगत्वं प्रपद्यते ॥
भगदैवतमासं तु एकभक्तेन यः क्षिपेत् । `सुभगो दर्शनीयश्च यशोभागी च जायते ।'
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥
चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत् ।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः ।
नरो वा यदि वा नरी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥
ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षिपेत् ।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वा प्रपद्यते ॥
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् । रूपद्रविणसम्पन्नः सुखी भवति नित्यशः ।
बहुभार्यो बहुधनो बहुपुत्रश्चि जायते ॥
प्रौष्ठपादं तु यो मासमेकाहारो भवेन्नरः ।
गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ।
प्रज्ञावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥
कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम् ।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥
इति मासा नरव्याघ्र क्षिपतां परिकीर्तिताः ।
तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥
पक्षेपक्षे गते यस्तु भक्तमश्नाति भारत ।
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥
मासिमासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश ।
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥
एते तु नियमाः सर्वे कर्तव्याः शरदो दश ।
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिरनुकीर्तिता ॥
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥
षड्भिः स वर्षैर्नृपते सिध्यते नाइत्र संशयः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
अधिवासे सोप्सरसां नृत्यगीतविनादिते ।
रमते स्त्रीसहस्राढ्ये सुकुती विरजा नरः ॥
तप्तकाञ्चनवर्णाभं विमानमधिरोहति । पूर्णं वर्षसहस्रं च ब्रह्मिलोके महीयते ।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः ।
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते ।
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः ॥
वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते ।
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
चक्रवाकप्रयुक्तेन विमानेन स गच्छति ।
चत्वारिंशत्सहस्राणि वर्षाणि दिवि मोदते ॥
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप ।
गवामयनयज्ञस्य फलं प्राप्नोति मानवः ॥
हंससारसयुक्तेन विमानेन स गच्छति ।
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥
पक्षेपक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु । षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत् ।
षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥
विणानां वल्लकीनां च वेणूनां च विशाम्पते ।
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥
संवत्सरमिहैकं तु मासिमासि पिबेदपः ।
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति ।
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते ।
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः ।
पदेपदे यज्ञफलं स प्राप्नोति न संशयः ॥
दिवं हंसप्रयुक्तेन विमानेन स गच्छति ।
शतं वर्षसहस्राणां मोदते स दिवि प्रभो ॥
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ।
आर्तो वा व्याधितो वाऽपि गच्छेदनशनं तु यः ॥
शतं वर्षसहस्राणां मोदते स दिवि प्रभो ।
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥
सहस्रहंसयुक्तेन विमानेन तु गच्छति ।
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् ।
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥
दुःखितस्यार्तपूर्वस्य द्रव्याणां प्रतिपादनम् ।
न चैतद्रोचते तेषां ये धनैः सुखमेधिताः ॥
अतः स कामसंयुक्ते विमाने हेमसन्निभे ।
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुचिः ॥
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः ।
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥
बालसूर्यप्रतीकाशे विमाने सोमवर्चसि ।
वैदूर्यमुक्ताखचिते वीणामुरजनादिते ॥
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते ।
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव ।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः ।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च ।
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे ।
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥
दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता ।
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतम् ॥
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः ।
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥
इदमङ्गीरसा पूर्वं महर्षिभ्यः प्रदर्शितम् ।
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥
इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा ।
पठेच्च यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् ॥
विमुच्यते चापि स सर्वसङ्करै- र्न चास्य दोषैरभिभूयते मनः ।
वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

7-163-12 व्युष्टिः फलम् ॥ 7-163-13 दिनस्य द्वे भक्ते तत्र चतुर्थस्य भक्तस्य क्षपणम् । द्विरात्रमभोजनमित्यर्थः ॥ 7-163-16 यजिष्णुः देवतापूजनशीलः कुले स एव महानन्नदाता भवतीत्यर्थः ॥ 7-163-24 ज्येष्ठामूलं ज्येष्ठमासम् ॥ 7-163-28 मृजावान् वाहनाढ्यश्च इति झ.पाठः ॥ 7-163-31 सर्वेषु मासेष्वेकैकस्मिन्पक्षे गते द्वितीयपक्षे भक्तमेकभक्तमश्नाति ॥ 7-163-57 दुःखितस्यार्थमानाभ्यां दुःखानां प्रतिषेधनम् इति झ.पाठः ॥ 7-163-70 वियोनिजानां पक्ष्यादीनां रुतं शब्दं विजानते विजानीते ॥

श्रीः