अध्यायः 012

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद ।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः ॥
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥
भीष्म उवाच ।
स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् ।
येषां संप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम् ॥
येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् ॥
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम् ॥
संसत्सु वदतां तात हंसानामिव सङ्घशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः ।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर ।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम् ॥
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम् ॥
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥
`भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत् । बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात् ॥'
धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत ॥
यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम ।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥
न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत् ।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः ॥
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु ॥
कर्मणा मनसा वाऽपि वाचा वाऽपि परंतप ।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम् ॥
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥
पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात् ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥
नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥
`ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः । तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः ॥'
पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम् ॥
ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा ॥
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥
`दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया ।
अकोपनापराधेन भूयो नरकमश्नुते ॥
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥
दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत् ।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत् ॥
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

7-12-2 यदमुत्रेह च हितं तद्वदेति शेषः ॥ 7-12-5 अक्षरं ब्रह्म तद्विदाम् ॥ 7-12-6 हंससादृश्यं क्षीरनीरयोरिव सारसारयोर्विवेचनात् ॥ 7-12-7 नृपतौ नृपतेः समीपे उच्चरिताः ॥ 7-12-8 ये चापि तेषां दातार इति ध. पाठः ॥ 7-12-13 ब्राह्मणकः कुत्सितब्राह्मणोपि यद्यहं स्यां तर्हि धन्यः किमुत फुले जातः ॥ 7-12-17 यृजिनं सङ्कटम् । फलाशेथियावत् । पूज्यत्वादेव तान्पूजयामि नतु फलायेत्यर्थः ॥ 7-12-18 तेन ब्राह्मणारावनेन । न तपामि न व्यथां प्राप्तोमि ॥ 7-12-19 ब्रह्मण्यो ब्रह्मजातौ आसक्तः ॥ 7-12-27 ब्राह्मणाद्बिभ्येत् नतु तत्र तेजस्तपसी स्वीये प्रकाशयेदित्यर्थः । तेजः क्रोधबलम् । तपो योगबलम् ॥ 7-12-28 तयोस्तपस्तेजसोर्ब्रह्मणक्षत्रियस्थयोर्व्यवसायः फलमभिभवरूपं शीघ्रं तीव्रं तथापि तपस्विन एवेतरान् हन्युर्न तेजस्विन इत्यर्थः ॥ 7-12-30 ल्यब्लोपे पञ्चमी । अकोपनं ब्राह्मणं प्राप्य यद्भूयः बहुतरं उभयं तपस्तेजआख्यं स्यात् तद्दत्तं खण्डितं भवतीति शेषः । उभयत उभयं चेत् शेषं कुर्याद् दत्तशेषं शेषयेदित्यन्वयः । द्वाभ्यां अन्योन्यस्मिन्प्रयुक्तं तेजआदिद्वयं न निःशेषं नश्यति किन्तु शेषम् । क्षमावता खण्डितस्य तस्यावशिष्टं तु न शेषयेन्न शिष्यते अपितु निःशेषमेव नश्यतीत्यर्थः ॥ 30 ॥ 7-12-32 अभावे तद्देयमित्यर्थः ॥ 7-12-42 द्वादशोऽध्यायः ॥

श्रीः