अध्यायः 167

अथ दानधर्मपर्व ॥ 1 ॥

सनत्कुमारेण रुद्रंप्रति देहिदेहावयवाश्रितदेवताकथनपूर्वकं योगनिरूपणम् ॥ 1 ॥

`सनत्कुमार उवाच ।

प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः ।
तथाऽध्यात्माधेभूतं च तथैवात्राधिदैवतम् ॥
निखिलेन तु वक्ष्यामि दैवतानि ह देहिनाम् ।
यान्याश्रितेषु देहेषु यानि पृच्छसि शङ्कर ॥
वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः ।
रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु ॥
नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च ।
वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा ॥
संवत्सराः पर्वसु च आकाशे दैवमानुषे ।
उदाने विद्युदभवद्व्याने पर्जन्य एव च ॥
स्तनयोरेव चाकाशं बले चेन्द्रस्तथैव च ।
मनसोऽप्यथ चेशानस्त्वपाने रुद्र एव च ॥
गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शङ्कर ।
प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च ॥
शरीरे पृथिवी चैव पादयोर्विष्णुरेव च ।
पायौ मित्रस्तथोपस्थे प्रजापतिररिंदम ॥
मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः ।
बुध्यमानोऽऽत्मनिष्ठः स्यादधिष्ठाता तु शङ्करः ॥
अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः ।
आभ्यामन्यः परो बुद्धो वेदवादेषु शङ्कर ॥
यदाश्रितानि देहेषु दैवतानि पृथक्पृथक् ।
योऽग्नये जायते नित्यमात्मयाजी समाहितः ॥
य एवमनुपश्येत दैवतानि समाहितः । सोत्र योगी भवत्येव य एवमनुपश्यति ।
स सर्वज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते ॥
मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत् ।
सोत्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः ॥
सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्यात्मयाजिना ।
गन्तव्यं परमाकाङ्क्षन्परमेव च चिन्तयन् ॥
यथा संक्रमते देहाद्देही त्रिपुरसूदन ।
तथास्य स्थानमाख्यास्ये पृथक्त्वेनेह शङ्कर ॥
पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात् ।
पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम् ॥
नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भवो लभेत् बाहुभ्यां वासवं स्थानं श्रोत्राभ्यामाप्नुयाद्दिशः ।
आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च ॥
अथ मूर्धसु यः प्राणान्धारयेत समाहितः ।
बुद्ध्या मानमवाप्नोति द्रव्यावस्थं च संशयः ॥
अव्यक्तात्परमं शुद्धमप्रमेयमनामयम् ।
तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान् ॥
बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते ।
बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति ॥
विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः ।
पञ्चविंशतितत्वं तत्प्रोच्यते तत्र संशयः ॥
स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते ।
महानात्मा महादेव महानत्राधितिष्ठति ॥
अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात् ।
एष चेतयते देव मोहजालमबुद्धिमान् ॥
अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः ।
सोहं सोहमतो नित्यादज्ञानादिति मन्यते ॥
यदि बुध्यति चैवायं मन्येयमिति भास्वरः ।
न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा ॥
देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर ।
योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः ॥
शून्यागारेष्वरण्येषु सागरे वा गुहासु वा ।
विष्टम्भयित्वा त्रीन्दण्डानवाप्तो ह्यद्वयो भवेत् ॥
प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखोपि वा ।
दक्षिणावदनो वापि बद्ध्वा विधिवदासनम् ॥
स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम् ।
यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत् ॥
लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः ।
मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः ॥
शेषकालं तु युञ्जीत मनसा सुसमाहितः ।
इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् ॥
मनस्तथैव सङ्गृह्य बुद्ध्या बुद्धिमतां वर ।
विधावमानं धैर्येण विस्फुरन्तमितस्ततः ॥
निरुध्य सर्वसङ्कल्पांस्ततो वै स्थिरतां व्रजेत् ।
एकाग्रस्तद्विजानीयात्सर्वं गुह्यतमं परम् ॥
निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते ।
ऊर्ध्वमेव न तिर्यक्च तथैवाभ्रान्ति ते मनः ॥
हृदिस्थस्तिष्ठते योसौ तस्यैवाभिमुखो यदा ।
मनो भवति देवेश पाषाणमिव निश्चलम् ॥
स निर्जने विनिर्घोषे सघोषे चाऽऽवसञ्जने ।
युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः ॥
ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम् ।
विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम् ॥
तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम् ।
चेतयानमचेतं च दीप्यमानं स्वतेजसा ॥
अङ्गष्ठपर्वमात्रं तन्नैश्रेयसमनिन्दितम् ।
महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम् ॥
ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम् ।
नारायणमणीयांसमीश्वराणामधीश्वरम् ॥
विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् ।
अविज्ञाय निमज्जन्ति लोकाः संसारसागरे ॥
यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः ।
जन्ममृत्युभयान्मुक्तास्तीर्णाः संसारसागरम् ॥
अणिमा लघिमा भूमा प्राप्तिः प्राकम्यमेव च । ईशित्वं च वशित्वं च यत्र कामावसायिता ।
एतदष्टुगुणं योगं योगानाममितं स्मृतम् ॥
दृष्ट्वात्मानं निरात्मानमप्रमेयं सनातनम् । ते विशन्ति शरीराणि योगेनानेन भास्वरम् ।
दैत्यदेवमनुष्याणां बलेन बलवत्तमाः ॥
एतत्तत्वमनाद्यन्तं यद्भवाननुपृच्छति ।
नित्यं वयमुपास्यामो योगधर्मं सनातनम् ॥
योगधर्मान्न धर्मोस्ति गरीयान्सुरसत्तम ।
एतद्धर्म हि धर्माणामपुनर्भवसंस्कृतम् ॥
तत्वतः परमस्तीस्ति केचिदाहुर्मनीषिणः ।
केचिदाहुः परं नास्ति ये ज्ञानफलमाश्रिताः ॥
ज्ञानस्थः पुरुषस्त्वेष विकृतः स्वेन वर्णितः ।
ये ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः ॥
तमेव पुरुषं देवं केचिदेव महेश्वर ।
नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम् ॥
ज्ञानमेव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम् ।
चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः ॥
उक्तमेतावदेतत्ते योगदर्शनमुत्तमम् । साङ्ख्यज्ञानं प्रवक्ष्यामि परिसंख्याविदर्शनम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

7-167-11 योऽग्निं याजयते नित्यमिति थ.पाठः ॥ 7-167-21 पञ्चविंशतिकं तत्वमिति थ.पाठः ॥ 7-167-27 त्रीन्दण्डानवाप्नोति च योगविदिति ट.पाठः ॥

श्रीः