अध्यायः 169

अथ दानधर्मपर्व ॥ 1 ॥

सनत्कुमारेण रुद्रंप्रति प्राणिनां मरणसूचकदुर्निमित्तकथनपूर्वकं जिजीविषोस्तत्पहिहारोपायकथनम् ॥ 1 ॥ तथाऽनिच्छोर्भगवद्ध्यानेन शरीरत्यागस्य पारत्रिकसुखसाधनत्वोक्तिः ॥ 2 ॥ तथा भगवज्ज्ञानप्रशंसनपूर्वकं तदुपदेशपरंपराकथनम् ॥ 3 ॥

`सनत्कुमार उवाच ।

अरिष्टानि प्रवक्ष्यामि तत्वेन शृणु तद्भवान् ।
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम् ॥
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः । वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम् ।
एतत्फलमंरिष्टस्य शङ्कराहुर्मनीषिणः ।
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः ।
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम् ॥
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः ।
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम् ॥
कनीनिकायामशिरःपुरुषं यदि पश्यति ।
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम् ॥
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि ।
विजानीयात्तु मासेन देहन्यासमुपस्थितम् ॥
आमगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम् ।
देवतायतनस्थोपि सप्तरात्रेण मृत्युभाक् ॥
सर्वाङ्गधारणावस्थां धारयेत समाहितः । यथा स मृत्युं जयति नान्यथेह महेश्वर ।
यदि जीवितुमिच्छेत चिरकालं महामुने ॥
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना ।
केवलं चिन्तयानस्तु निष्कलं स निरामयम् ॥
अथ तं निर्विकारं तु प्रकृते परमं शुचिः ।
पुरुषं देहसाधर्म्यं देहन्यासमुपाश्नुयात् ॥
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्वतः ।
धारणाच्चैव सर्वाङ्गे मृत्यु जीयात्सुरर्षभ ॥
एकत्वदर्शनं भूयो नानात्वं च निबोध मे ।
अक्षरं च क्षरं चैव चतुष्टयविधानतः ॥
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते ।
आहुश्चतुर्विंशतितमं विकारपुरुषान्वितम् ॥
एकत्वदर्शनं चैव नानात्वेन वरं स्मृतम् ।
पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः ॥
स निर्विकारः पुरुषस्तत्वेनैवोपदिश्यते ।
स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः ॥
यद्येष निर्विकारः स्यात्तत्वं न तु भवेद्भव ।
विकारो विद्यमानस्तु तत्वसंज्ञकमुच्यते ॥
यद्योषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः ।
तथा भवति निस्तत्वस्तथा सत्वस्तथागुणः ॥
विकारगुणसंत्यागात्प्रकृत्यन्यत्वता शुचिः ।
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक् ॥
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् ।
अक्षरश्च भवत्येष यथावा च्युतवान्क्षणात् ॥
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात् ।
एतदेकत्वनानात्वमक्षरः क्षर एव च ॥
व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि । विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते ।
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम् ॥
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः ।
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव ॥
विपाप्मानो महादेव मुक्ताः संसारसागरात् । सरणे प्रजनादाने गुणानां प्रकृतिः सदा ।
परा प्रमत्ता सततमेतावत्कार्यकारणम् ॥
असच्चैव च सच्चैव कुरुते स पुनः पुनः ।
चैतन्येन पुराणेन चेतनाचेतनात्परः ॥
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम् ।
स नैव सन्न चैवासन्सदसन्न च संस्मृतः ॥
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा ।
उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः ॥
विकारपुरुषेणैषा संयुक्ता सृजते जगत् ।
पुनराददते चैव गुणानामन्यथात्मनि ॥
मत्स्योदकात्ससंज्ञातः प्रकृतेरेव कर्मणः ।
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति ॥
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते ।
सयोगो नित्य इत्याहुर्ये जनास्तत्वदर्शिनः ॥
एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः ।
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः ॥
यदा त्वेष विकारस्य प्रकृतानिति मन्यते ।
तदा विकारतामेति विकारान्यत्वतां व्रजेत् ॥
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत् । शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम् ।
अयुक्तं निष्कलं शुद्धमव्ययं चाजरामरम् ॥
समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः ।
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात् ॥
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा ।
तथाऽव्यक्तस्य संत्यागान्निर्ममः पञ्च विंशकः ॥
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत् ।
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः ॥
आकाश इव निःसङ्गस्तथा सङ्गस्त्था वरः ।
पञ्चविंशतिमो बुद्धो बुद्धेनि समतां गतः ॥
एतद्धि प्रकृतं ज्ञानं तत्वतश्च समुत्थितम् ।
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्तथानघ ॥
आदिसर्गो महाबाहो तामसेनावृतं परम् ।
प्रतिष्टावयवंदेवमभेद्यमजरामरम् ॥
सनकः सनन्दनश्चैवि तृतीयश्च सनातनः ।
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम् ॥
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसंज्ञकात् ।
क्षेत्रज्ञो भगवानास्ते नरायणपरायणः ॥
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम् ।
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे ॥
पुनःपुनः प्रजाता वै तत्रतत्र पिनाकधृक् ।
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम् ॥
कपिलान्मूलआचार्यात्तत्वबुद्धिविनिश्चयम् ।
योगसांख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् ॥
तेन संबोधिताः शिष्या बहवस्तत्वदर्शिनः ।
तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः ॥
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् ।
यज्ज्ञात्वा नानुशोचन्ति तत्वज्ञाना निरिन्द्रियाः ॥
शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः ।
स्वतन्त्रास्ते स्वतन्त्रेण सम्मिता निष्कलाः स्मृताः ॥
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर ।
विपाप्मानस्तथा सर्वे सत्वस्थाश्चापि निर्व्रणाः ॥
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा ।
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः ॥
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ ।
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा ॥
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च ।
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्चि ह ॥
एते चान्ये च बहवस्तत्वमेवोपदर्शिताः ।
केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः ॥
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा ।
अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा ॥
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु ।
परितस्तावता सम्यक्सम्बन्धो यावता कृतः ॥
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः ।
निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः ॥
भीष्म उवाच ।
इत्येवमुक्त्वा भगवानीश्वराय महात्मने । सनत्कुमारः प्रययावाकाशं समुपाश्रितः ॥'

श्रीः