अध्यायः 175

अथ दानधर्मपर्व ॥ 1 ॥

बृहस्पतीना युधिष्ठिरंप्रत्यहिंसाप्रशंसनम् । 1 ॥

युधिष्ठिर उवाच ।

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः ।
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥
बृहस्पतिरुवाच ।
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः ।
शृणु संकीर्त्यमानानि षडेव भरतर्षभ ॥
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् ।
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत् ॥
त्रिदण्डं सर्वभूतेषु निधाय पुरुषः शुचिः ।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः ।
आत्मनः सुखमन्विच्छन्स प्रेत्य न सुखी भवेत् ॥
आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः ।
त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदेषिणः ॥
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ।
एष साङ्ग्राहिको धर्मः कामादन्यः प्रवर्तते ॥
प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥
यथा परः प्रक्रमते परेषु तथा परे प्रक्रमन्ते परस्मिन् ।
निषेवते स्वसमां जीवलोके यथा धर्मो नैपुणेनोपदिष्टः ।
वैशम्पायन उवाच ।
इत्युक्त्वा तं सुरगुरुधर्मराजं युधिष्ठिरम् ।
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

7-175-7 सर्वेषां भूतानामात्मभूतस्याऽऽदुःखेनेव परदुःखेनाप्युद्विजतः ॥ 7-175-10 हिंसितो हिनस्ति पालितः पालयति तस्मःत्पालयेदेव नो हिंसयेदित्यर्थः ॥

श्रीः