अध्यायः 178

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति मांसगतगुणकथनपूर्वकं तद्भक्षणगर्हणम् ॥ 1 ॥ तथा दयाया अहिंसायाश्च प्रशंसनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

इमे वै मानवा लोके भृशं मांसेषु गृद्धिनः ।
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव ॥
अपूपान्विविधाकाराञ्शाकानि विविधानि च ।
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽऽमिषम् ॥
तत्र मे बुद्धिरत्रेव विषये परिमुह्यते ।
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन ॥
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणे प्रभो ।
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥
सर्वसत्त्वेन धर्मज्ञ यथावदिह धर्मतः ।
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥
यथैतद्यादृशं चैव गुणा ये चास्य वर्जने ।
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
सर्वमेतन्महाबाहो यथा वदसि भारत ।
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि ॥
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम् ।
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च ।
`नाशो भक्षणदोषः स्याद्दानमेव सदा मतम् ॥
क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम् ।
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः ॥
शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः । अवस्थेयमदानस्य मा भूदेवं भवानिति ।
दानाद्यः सुशुचिर्मांसं पुनर्नैव च भक्षयेत् ॥'
न भक्ष्योऽभ्याधिकः कश्चिन्मांसादस्ति परंतप । विवर्जने तु बहवो गुणाः कौरवनन्दन ।
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः ॥
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते ।
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे ॥
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः ।
भक्षणे तु महान्दोषो मलेन स हि कल्प्यते ॥
`अहिंसालक्षणो धर्म इति वेदविदो विदुः ।
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः ॥
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ।' विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ।
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति ॥
आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः ।
अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥
`रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः ।' नात्मानमपरित्यज्य मृगया नाम विद्यते ॥
समतामुपसङ्गम्य रूपं हन्यान्न वा नृप । अतो राजर्षयः सर्वे मृगयां यान्ति भारत ।
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि ॥
न ह्यतः सदृशं किञ्चिदिह लोके परत्र च ।
यत्सर्वेष्विह भूतेषु दया कौरवन्दन ॥
न भयं विद्यते जातु नरस्येह दयावतः ।
दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥
क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम् । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ।
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥
प्राणदानात्परं दानं न भूतं न भविष्यति ।
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम् ॥
अनिष्टं सर्वभूतानां मरणं नाम भारत ।
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥
जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनःपुनः ।
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः ।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनःपुनः ॥
नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह ।
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् ।
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् ।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् ।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत ॥
घातको वध्यते नित्यं तथा बध्येत बन्धकः ।
आक्रोष्टा क्रुध्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥
येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥
अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः ।
अहिंसा परमं दानमहिंसा परमं तपः ॥
अहिंसा परमं मिमहिंसा परमं सुखम् ॥ सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम् ।
सर्वदानफलं वाऽपि नैतत्तुल्यमहिंसया ॥ अहिंसस्य तपोऽक्षय्यमहिंस्रो जयते सदा ।
अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव ।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

7-178-15 दोषो निवृत्त्या पुण्यमुच्यत इति झ.पाठः ॥ 15 ॥ 7-178-21 किञ्च हन्यमानात्पशोः स्ववधस्यापि सम्भवात् प्राणपणेनेयं क्रियमाणा मृगया न दोषायेत्याह नात्मानमिति ॥ 21 ॥ 7-178-37 मां सः पूर्वजन्मनि भक्षितवानत एव तस्य मांसमहं भक्षयिष्यामीति व्यवहारान्मांसपदनिरुक्तिः ॥

श्रीः