अध्यायः 179

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति कीटोपाख्यानकथनम् ॥ 1 ॥ कीटेन व्यासंप्रतति स्वपूर्वजन्मवृत्तान्तकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

अकामाश्च सकामाश्च ये हताः स्म महामृधे ।
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे ।
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥
समृद्दे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे । `संसारेऽस्मिन्सदाजाताः प्राणिनोऽभिरताःकथम् '
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥
भीष्म उवाच ।
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे ।
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते ॥
निरता येन भावेन तत्र मे शृणु कारणम् ।
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर ॥
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप ।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् ।
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत् ॥
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम् ॥
कीट उवाच ।
शकटव्रजस्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥
श्रूयते तु स मा हन्यादिति ह्यस्मादपक्रमे ।
श्वसतां च शृणोम्येनं गोवृषाणां प्रतोद्यताम् ॥
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो ।
नृणां च संवाहयतां श्रूयन्ते विविधाः स्वनाः ॥
वोढुमस्मद्विधेनैव न शक्यः कीटयोनिना ।
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात् ॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।
अतो भीतः पलायामि गच्छेयं नापदं यथा ॥
भीष्म उवाच ।
इत्युक्तः स तु सं प्राह कुतः कीट सुखं तव ।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् ।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥
कीट उवाच ।
सर्वत्र निरतो जीव इहापि च सुखं मम ।
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥
इहापि विषयः सर्वो यथादेहं प्रवर्तितः ।
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो ।
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः ॥
वाक््श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः ।
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः ॥
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया ।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता ॥
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया ।
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च ॥
गुप्तं शरणमाश्रित्य भयेषु शरणागतान् ।
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया ॥
धनं धान्यं प्रियान्दारान्यानं वासस्तथाऽद्भुतम् ।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः ।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम् ॥
शुभानां नाभिजानामि कृतानां कर्मणां फलम् ।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः ।
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥
कर्मणामेव चैवाहं सुखाशामिव लक्षये ।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

7-179-19 कदर्यो वृद्धिजीवनः इति झ.पाठः ॥ 7-179-25 न बुभूषकः अनैश्वर्यमिच्छन् ॥

श्रीः