अध्यायः 180

अथ दानधर्मपर्व ॥ 1 ॥

व्यासेन कीटाय राज्यदानम् ॥ 1 ॥

व्यास उवाच ।

शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥
अहं त्वां दर्शनादेव तारयामि तपोबलात् ।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् ।
अवाप्स्य्सि परं र्धर्मं मानुष्ये यदि मन्यसे ॥
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः ॥
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः ।
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः ॥
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः ।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे । क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि ।
भीष्म उवाच ।
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत ॥
*तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु ॥
स कीटे एवमाख्यातमृषिणा सत्यवादिना ।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः ॥
कीट उवाच ।
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः ।
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः ॥
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम् ॥
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च ।
वरार्हेषु महाभाग स्वपामि च सुपूजितः ॥
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः ॥
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः । यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम् ।
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा ॥
[नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् । त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥]
व्यास उवाच ।
[अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम्] ॥
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना । ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा ।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा ॥
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे ॥
भीष्म उवाच ।
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः ।
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी ॥
तिर्यग्योन्याः शूद्रतामभ्यपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः ।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

7-180-1 तदैव कीट तत्कर्मेति क.ड.थ. पाठः ॥ 7-180-6 जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः इति झ.पाठः ॥ 7-180-8 * अत्र सप्तमश्लोकादनन्तरं सार्धश्लोको झ. पुस्तकेऽधिको दृस्यते सच व्रजंश्च सुमहानागतश्च यदृच्छया । चक्राक्रमेण भिन्नश्च कीटः प्राणान्मुमोच ह ॥ सम्भूतः क्षत्रियकुले प्रसादादमितौजसः । इति ॥

श्रीः