अध्यायः 187

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति साम्नः सकलवशीकरणोपायत्वे दृष्टान्ततया रक्षोब्राह्मणसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

साम्नि चापि प्रदानेन च ज्यायः किं भवतो मतम् ।
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥
भीष्म उवाच ।
साम्ना प्रसाद्यते कश्चिद्दानेन च तथाऽपरः ।
पौरुषीं प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥
गुणांस्तु शृणु वैराजन्त्सान्त्वस्य पुरुषर्षभ ।
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥
अत्राप्युदाहरन्तीममिदिहासं पुरातनम् ।
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने ।
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥
सुबुद्धिः श्रुतिसम्पन्नो दृष्ट्वा तमतिभीषणम् ।
सामैवास्मै प्रयुञ्जानो न मुमोह न विव्यधे ॥
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् ।
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥
भीष्म उवाच ।
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणिस्तं निरीक्ष्य सः ।
अभीतवदथाव्यग्रः प्रश्नं प्रतिजगाद ह ॥
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः ।
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि ।
स्वदोषात्तु परित्यज्य तेनासि हरिणः कृशः ॥
अवृत्त्या पीड्यमानोऽपि वृत्त्युपायान्विगर्हयन् ।
महार्थान्ध्यायसे नूनं तेनासि हरिणः कृशः ॥
परकार्याधिकारस्थाः सद्गुणैरधमा नराः ।
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥
गुणवान्निर्गुणानन्यान्नूनं पश्यसि तत्कृतान् ।
प्राज्ञैरपि विनीतात्मा तेनासि हरिणः कृशः ॥
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः ।
जितं त्वां मन्यते साधो तेनासि हरिमः कृशः ॥
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः ।
मन्येऽनुध्यायसि जनांस्तेनासि हरिमः कृशः ॥
प्राज्ञैरपुजितो नूनं प्राज्ञैरप्यभिनिन्दितः ।
ह्रीमानमर्षी दुर्वृत्तस्तेनासि हरिणः कृशः ॥
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् ।
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥
नूनमद्य सतां मध्ये तव वाक्यमनुत्तमम् ।
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥
दृष्टपूर्वाञ्श्रुतपूर्वान्कुपितान्हृदयप्रियान् ।
अनुनेतुं न शक्रोषि तेनासि हरिणः कृशः ॥
नूनमासञ्जयित्वा त्वा कृत्ये कस्मिंश्चिदीप्सिते ।
कच्चिदर्थयते नित्यं तेनासि हरिणः कृशः ॥
परोक्षवादिभिर्मिथ्यादोषस्ते सम्प्रदर्शितः ।
तज्ज्ञैर्न पूज्यसे व्यक्तं तेनासि हरिणः कृशः ॥
नूनं त्वां सद्गुणापेक्षं पूजयानं सुहृत्प्रजाः ।
मायावीति च जानन्ति तेनासि हरिणः कृशः ॥
अन्तर्गतमभिप्रायंन न नूनं लज्जयेच्छसि ।
विवक्तुं प्राप्य शैथिल्यात्तेनासि हरिणः कृशः ॥
नानाबुद्धिरुचीँल्लोके मानुषान्नूनमिच्छसि ।
ग्रहीतुं स्वैर्गुणैः सर्वांस्तेनासि हरिणः कृशः ॥
असत्सु विनिविष्टेषु न गुणान्वदतः स्वयम् ।
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥
धर्मवृत्तः श्रुतैर्हीनः पदं त्वं रजसान्वितः ।
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् ।
बन्धुवर्गो निगृह्णाति तेनासि हरिमः कृशः ॥
इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः ।
युवा सुललितः कामी तेनासि हरिणः कृशः ॥
दुर्विनीतहतः पुत्रो जामाता वाऽप्रमार्जकः ।
दारा वा प्रतिकूलास्ते तेनासि हरिमः कृशः ॥
भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः ।
माता ज्योष्ठो गुरुर्वाऽपि तेनासि हरिमः कृशः ॥
ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वापहृतं पुरा ।
देवस्यं वा हृतं काले तेनासि हरिणः कृशः ॥
हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथवा नरैः ।
अविज्ञानेन वा वृद्धस्तेनासि हरिणः कृशः ॥
वार्धकार्थं धनं दृष्ट्वा स्वा श्रीर्वाऽपि परैर्हृता ।
वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः ॥
सम्पत्कालेन ते धर्मः क्षीणस्तात सुहृद्बुवैः ।
असंन्यासमतिस्तत्र तेनासि हरिणः कृशः ॥
अविद्वान्भीरुरल्पार्थे विद्याविक्रमदानजम् ।
यशः प्रार्थयसे नित्यं तेनासि हरिणः कृशः ॥
चिरहाभिलषितं किञ्चित्फलमप्राप्तमेव ते ।
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥
नूनमात्मगतं दोषमपश्यन्किंचिदात्मनि ।
अकारणेऽभिशस्तो हि तेनासि हरिणः कृशः ॥
सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम् ।
अलमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥
साधून्गृहस्थान्दृष्ट्वा च तथा साधून्वनेचरान् ।
मुक्तांश्चावसथे सक्तांस्तेनासि हरिमः कृशः ॥
धर्म्यमर्थ्यं च काम्यं च देशे च रहितं वचः ।
न प्रसिद्ध्यति ते नूनं तेनासि हरिणः कृशः ॥
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः ।
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि ।
सुहृदामुपरोधेन तेनासि हरिणः कृशः ॥
पापान्विवर्धितान्दृष्ट्वा कल्याणांश्चावसीदतः ।
ध्रुवं गर्हयसे नूनं तेनासि हरिणः कृशः ॥
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् ।
सहायमकरोच्चैनं सम्पूज्यामुं मुमोच ह ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

7-187-8 आभिर्गाधाभिरव्यग्र इति झ.पाठः ॥ 7-187-10 स्वदोषादपरज्यन्ते इति झ.पाठः ॥ 7-187-16 प्रज्ञासम्भावितो नूनमप्रदैरुपसंहिते इति झ.पाठः ॥

श्रीः