अध्यायः 188

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति श्राद्धविद्यादिप्रतिपादकपितृदेवदूतादिसंवादानुवादः ॥ 1 ॥

[*युधिष्ठिर उवाच ।

जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् ।
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह ॥
दानानामुत्तमं यच्च देयं यच्च यथायथा ।
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि ॥
वैशम्पायन उवाच ।
एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना ।
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् ॥
भीष्म उवाच ।
शृणुष्वावहितो राजन्धर्मगुह्यानि भारत ।
यथाहि भगवान्व्यासः पुरा कथितवान्मयि ॥
देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा ।
नियमस्थेन युक्तेन तपसो महतः फलम् ॥
येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा ।
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः ॥
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः ।
महादानफलं चैव सर्वयज्ञफलं तथा ॥
यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ ।
सदोषोऽदोषवांश्चेह तैर्गुणैः सह युज्यते ॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः
अर्घेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः ।
त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् ॥
धर्मिव्याकरणं पुण्यं रहस्यश्रवणं महत् ।
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् ॥
पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि ।
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम् ॥
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः ।
महायज्ञफलं चैव सर्वदानफलं तथा ॥
ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति ।
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः ॥
गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम् ।
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः ॥
श्रोतारः श्रद्धधानाश्च येषां शुद्धं च मानसम् ।
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना ॥
मुच्यते किल्बिषाच्चैव न स पापेन लिप्यते ।
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः ॥
कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया ।
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम् ॥
यो तौ कामगुणोपेतावश्विनौ भिषजां वरौ ।
आज्ञयाऽहं तयोः प्राप्तः सनरान्पितृदैवतान् ॥
कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम् ।
केमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक्पृथक् ॥
प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति ।
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम् ॥
श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् ।
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम् ॥
पितर ऊचुः ।
स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम ।
गूढार्थः परमः प्रश्नो भवता समुदीरितः ॥
श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् ।
पितरस्तस्य तं मासं तस्मिन्रेतसि शेरते ॥
प्रविभागं तु पिण्डानां प्रवक्ष्याम्यनुपूर्वशः ।
पिण्डो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत् ॥
पिण्डं तु मध्यमं तत्र पत्नीत्वेका समश्नुते । पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि ।
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते ॥
पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा ।
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति ॥
देवदूत उवाच ।
आनुपूर्व्येण पिण्डानां प्रविभागः पृथक्पृथक् ।
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया ॥
एकः समुद्धृतः पिण्डो ह्यधस्तात्कस्य गच्छति ।
कं वा प्रीणयते देवं कथं तारयते पितॄन् ॥
मध्यमं तु तदा पत्नी भुङ्क्तेऽनुज्ञातमेव हि ।
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते ॥
अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम् ।
भवते का गतिस्तस्य कं वा समनुगच्छति ॥
एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः ।
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते ॥
पितर ऊचुः ।
सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः ।
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर ॥
एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा । तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम् ।
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् ॥
पितृभक्तस्तु यो विप्रो वलब्धो महायशाः ।
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम् ॥
देवदूतेन यः पृष्टः श्राद्धस्य विदिनिश्चयः ।
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम ॥
अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत् ।
शशी प्रीणयते देवान्पितॄंश्चैव महामते ॥
भुङ्क्ते तु पत्नीं यं चैषामनुज्ञाता तु मध्यमम् ।
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः ॥
हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे । पितरस्तेन तृप्यन्ति प्रीताः कामान्दिशन्ति च ।
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः ॥
ऋत्विग्यो यजमानस्य पितृत्वमनुगच्छति ।
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम् ॥
शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम ।
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा ॥
तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः ।
प्रजा विवर्दते चास्य चश्चैवं सम्प्रयच्छति ॥
ततो विद्युत्प्रभो नाम ऋषिराह महातपाः ।
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते ॥
स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत् ॥
तिर्यग्योनिगतान्सत्वान्मर्त्या हिंसन्ति मोहिताः । कीटान्पिपीलिकान्सर्पान्मेषान्समृगपक्षिणः ।
किल्बिषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया ॥
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ।
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम् ॥
शक्र उवाच ।
कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च । एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम् ।
तथा मुच्यति पापेनि राहुणा चन्द्रमा यथा ॥
त्र्यहं स्नातः स भवति निराहारश्च वर्तते ।
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति ॥
ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम् ।
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो ॥
घृष्टो वटकषायेणि अनुलिप्तः प्रियङ्गुणा ।
क्षीरेण षष्टिकान्भुक्त्वा सर्वपापैः प्रमुच्यते ॥
श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम् । श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः ।
रुद्रेण सह देवेश तन्निबोध शचीपते ॥
पर्वतारोहणं कृत्वा एकपादो विभावसुम् । निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः ।
तपसा महता युक्त उपवासफलं लभेत् ॥
रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति ।
ग्रीष्मकालेऽथवा शीते एवं पापमपोहति ॥
ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती ।
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पनः ॥
मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः ।
उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम् ॥
धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम् ।
सरहस्याश्च ये दोषास्तान्यथावदुदीरथ ॥
बृहस्पतिरुवाच ।
प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये ।
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति ॥
बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् ।
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते ॥
भानुमाननिलश्चैव हव्यवाहश्च वासव ।
लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा ॥
लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः ।
सर्वे भवन्तः शृणिवन्तु एकैकं धर्मनिश्चयम् ॥
वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः ।
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम् ॥
अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा । हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति ।
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः ॥
क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः ।
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः ॥
प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च ।
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः ॥
तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः ।
भूतिकामेनि मर्त्येन सत्यमेतद्ब्रवीमि ते ॥
ततः सर्वा महाभाग देवताः समरुद्गणाः ।
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः ॥
पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम् ।
अक्षयं च कथं दानं भवेच्चैवौर्ध्वदेहिकम् ॥
आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा ।
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः ॥
पितर ऊचुः ।
न्यायतो वै महाभागाः संशयः समुदाहृतः ।
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् ॥
नीलषण्डप्रमोक्षेण अणावास्यां तिलोदकैः ।
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत् ॥
अक्षयं निर्व्यलीकं च दानमेतन्महाफलम् ।
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते ॥
श्रद्धधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम् ।
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान् ॥
पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः ।
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत् ॥
के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः ।
वर्षासु दीपदानेन तथैव च तिलोदकैः ॥
पितर ऊचुः ।
नीलषण्डस्य लाङ्गूलं तोयमभ्युद्दरेद्यदि ।
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ॥
यस्तु शृङ्गगतं पङ्क्तं कूलादुद्धृत्य तिष्ठति ।
पितरस्तेन गच्छन्ति सोमलोकमसंशयम् ॥
वर्षासु दीपदानेन शशीवच्छोभते नरः ।
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति ॥
अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् । पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन ।
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् ॥
हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा । कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत् ।
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत् ॥
एवमेव समुद्दिष्टः श्राद्धकालक्रमस्तथा । विधिः पात्रं फलं चैव यथावदनुकीर्तितम् ॥] ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

7-188-5 यमेनप्राप्तमिति शेषः ॥ 7-188-9 दशानां पशूनां सूना वधो यत्र सा पशुघ्नजातिर्दशसूना । चक्रं चक्रवान् तैलिकः । ध्वजः सुरापायी । नृपः क्षुद्रो राजा ॥ 7-188-10 एवं दुष्प्रतिग्रहपराङ्मुखेन त्रिवर्गशास्त्रं धर्मार्थकामशास्त्राणि ज्ञेयानि ॥ 7-188-14 पठन्ति शास्त्रम् । उपतिष्ठति सम्यक् स्फुरत्याचष्टे च यः स स्वयं नारायण एवेति ज्ञातव्यः ॥ 7-188-19 सनरान् सहर्षीन्प्राप्तः प्रष्टुमिति शेषः ॥ 7-188-22 पूज्य सम्पूज्य ॥ 7-188-34 चिरजीविनं मार्कण्डेयम् ॥ 7-188-40 यतः ऋत्विक् श्राद्धभोक्ता यजमानस्य पितृत्वं गच्छति तस्मादन्यात्मतां गतः स्वस्त्रियं न गच्छेत् । पारदार्यदोषतुल्यं ह्येतदित्यर्थः ॥ 7-188-41 एतच्च वरणमारभ्य द्रष्टव्यमित्याशयेनाह शुचिनेति ॥ 7-188-50 वटकषायेण वटजटाकषायेण । प्रियङ्गुः राजसर्षपः षष्टिकान् षष्टिरात्रेण पक्वधान्यम् ॥ 7-188-52 विभावसुं सूर्यम् ॥

श्रीः