अध्यायः 191

अथ दानधर्मपर्व ॥ 1 ॥

वायुना धर्मरहस्यकथनम् ॥ 1 ॥

[वायुरुवाच ।

किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् ।
सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः ॥
अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् ।
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः ॥
एतेन विधिना मर्त्यः श्रद्दधानः समाहितः ।
चतुरो वार्षिकान्मासान्यो ददाति तिलोदकाम् ॥
भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे ।
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् ॥
इदं चैवापरं गुह्यमप्रशस्तं निबोधत ।
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः ॥
मन्यते धर्म एवेति च चाधर्मेणि लिप्यते ।
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति ॥
पितरश्च न तुष्यन्ति सहदेवैर्विशेषतः । प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे ।
यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः ॥
गवां मूत्रपुरीषेणि पयसा च घृतेन च ।
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः ॥
ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः ।
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते ॥
एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः । मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावह ॥] ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

7-191-5 नेता देशान्तरप्रापको यदि शूद्रः स्यात् तर्हि तस्य दोषः ॥

श्रीः