अध्यायः 199

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति अप्रतिग्राह्यप्रतिग्रहे अभोज्यभोजने च प्रायश्चित्तकथनम् ॥ 1 ॥

[युधिष्ठिर उवाच ।

उक्तास्तु भवता भोज्यास्तथाऽभोज्याश्च सर्वशः ।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह ॥
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे ।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे ॥
भीष्म उवाच ।
हन्त वक्ष्यामि ते राजन्ब्राह्मणानां महात्मनाम् ।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः ॥
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः ।
तिलप्रतिग्रहे चैव सममेतद्युधिष्ठिर ॥
मांसप्रतिग्रहे चैव मधुनो लवणस्य च ।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः ॥
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् ।
कृष्णायसं च विवृतं धारयन्मुच्यते द्विजः ॥
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम् । एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे ।
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा ।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम् ॥
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा ।
यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम् ॥
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके ।
जपेच्छतं समायुक्तस्तेन मुच्यते पाप्मना ॥
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा ।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते ॥
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः ।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः ॥
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत् ।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः ॥
इत्यर्थमपराङ्णे तु पितॄणां श्राद्धमुच्यते ।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः ॥
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते ।
स त्रिवेलं समुन्मज्ज्य द्वादशाहेन शुध्यति ॥
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः ।
ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना ॥
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् ।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ॥
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते ।
सप्तत्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः ॥
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात् ॥
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
अशौचं विधिवत्तस्य शौचमत्र विधीयते ॥
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा ॥
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने ।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना ॥
शूद्रास्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् ।
क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् ॥
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते । सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ।
तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः ।
रोचना विरजा रात्रिर्मङ्गलालम्भनानि च ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनद्विशततमोध्यायः ॥ 199 ॥

7-199-5 आदित्योदयनं तत्पर्यन्तं स्थित्वा ॥ 7-199-6 विवृतं लोकप्रत्यक्षं धारयन् ॥ 7-199-11 ग्रहसूतकयोः कारागारस्ताशौचवतोः ॥ 7-199-13 नच संध्यामुपासीतेत्यत्र अस्नात इति शेषः । न सङ्किरेदिति पुनर्भोजन न कुर्यादित्यर्थः ॥ 7-199-14 अश्नीयुरित्यर्थमिति सम्बन्धे अपराह्णे क्षुद्बोधात्सम्यगन्नमश्नन्त्वित्यर्थः । केतिताः निमन्त्रिताः ॥ 7-199-16 हविरन्नम् । 7-199-17 सावित्रीं जपन् । रैवतीं रैवतं साम । इष्टिं पवित्रेष्टिम् । कूश्माण्डं यद्देवादेवहेडनमित्यनुवाकपञ्चकम् । अघमर्षणं जले निमज्ज्य दश प्रणवसंयुक्तगायत्र्याः ऋतंचेति तृचस्य वा त्रिर्जपः ॥ 7-199-20 अशौचं प्रायश्चित्ताभाव एव ॥ 7-199-25 विरजा दूर्वा रात्रिर्हरिद्रेति विश्वः ॥

श्रीः