अध्यायः 200

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति दृष्टान्तप्रदर्शनपूर्वकं दानप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

दानेन वर्ततेत्याह तपसा चैव भारत । तदेतन्मे मनोदुःशं व्यपोह त्वं पितामह ।
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति ॥
भीष्म उवाच ।
शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः ।
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः ॥
सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य तदा राजन्गतो लोकाननुत्तमान् ॥
शिबिरोशीनरः प्राणान्प्रियस्य तनयस्य च ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥
प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ।
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् ॥
दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् ।
छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् ॥
भगवानम्बरीषश्च ब्राह्मणायामितौजसे ।
प्रदाय सकलं राष्ट्रं सुरोलकमवाप्तवान् ॥
सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः ।
ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान् ॥
वृषादर्भिश्च राजर्षी रत्नानि विविधानि च ।
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः ॥
निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने ।
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः ॥
जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः ।
रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान् ॥
अवर्षति च पर्जन्ये सर्वभूतानि देवराट् ।
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् ॥
रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु ।
सगतो ह्यक्षयाँल्लोकान्यस्य लोके महद्यशः ॥
कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने ।
न्यासं यथावत्संन्यस्य जगामि सुमहायशः ॥
करंधमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः ।
कन्यामाङ्गिरसे दत्त्वा दिवामाशु जगाम सः ॥
ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतांवरः ।
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् ॥
राजा मित्रसहश्चैव वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः ॥
मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने ।
दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान् ॥
सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः ॥
भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान् ।
शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः ॥
नाम्ना च द्युतिमान्नाम साल्वराजो महाद्युतिः ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् ॥
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत ॥
कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् ।
गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः ॥
दत्त्वा शतसहस्रं तु गवां राजा भगीरथः ।
स वत्सानां कोहलाय गतो लोकाननुत्तमान् ॥
एते चान्ये च बहवो दानेन तपसा च ह ।
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनःपुनः ॥
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः ॥
शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर ।
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः ॥
दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर ।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी ॥
यत्र ते नृपशार्दूल सन्देहो वै भविष्यति ।
श्वः प्रभाते हि वक्ष्यामि सन्ध्या हि समुपस्थिता ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥

7-200-1 दानतपसोर्मध्ये किं श्रेष्ठमिति प्रश्नः । वर्तते स्वर्गे इति शेषः सन्धिरार्षः ॥ 7-200-9 सावित्रः कर्णः ॥ 7-200-12 मनसो मनःसङ्कल्पादप्यधिकान् ॥ 7-200-13 देवराट् भूदेवाराट् वसिष्ठः ॥ 7-200-15 न्यासं दानरूपेण स्थापनम् ॥ 7-200-17 अनुज्ञाप्य दत्त्वा ॥ 7-200-19 दण्डं चोरयोग्यं हस्तच्छेदरूपम् ॥ 7-200-22 राशयः राशीन् ॥

श्रीः