अध्यायः 205

अथ दानधर्मपर्व ॥ 1 ॥

नारदेन कृष्णंप्रति उमामहेश्वरसंवदानुवादारम्भः ॥ 1 ॥ नानामुनिगणाकीर्णहिमवत्तटमुपविष्टे महादेवे तत्पृष्ठभागमुपागतया पार्वत्या क्रीडार्थं स्वपाणिभ्यां तदीयनयनद्वयपिधानम् ॥ 2 ॥ तदा जगत आन्ध्यप्राप्तौ देवेन स्वललाटे तृतीयनेत्रसर्जनम् ॥ 3 ॥ तत्तेजसा निर्दग्धे गिरौ देवीप्रार्थनया देवेन पुनर्गिरेरुज्जीवनम् ॥ 4 ॥

नारद उवाच ।

भगवंस्तीर्थयात्रार्थं तथैव चरता मया ।
दिव्यमद्भुतसङ्काशं दृष्टं हैमवतं वनम् ॥
नानावृक्षसमायुक्तं नानापक्षिगणैर्वृतम् ।
नानरत्नगणाकीर्णं नानाभावसमन्वितम् ॥
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ।
दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन वासितम् ॥
सिद्धचारणसंघातैर्भूतसङ्घैर्निषेवितम् ।
वरिष्ठाप्सरसाकीर्णं नागगन्धर्वसङ्कुलम् ॥
मृदङ्गमुरजोद्धुष्टं शङ्खवीणाभिनादितम् ।
नृत्यद्भिर्भूतसङ्घैश्च सर्वतस्त्वभिशोभितम् ॥
नानारूपैर्विरूपैश्च भीमरूपैर्भयानकैः ।
सिंहव्याघ्रोरगमृगैर्बिडालवदनैस्तथा ॥
स्वरोष्ट्रद्वीपिवदनैर्गजवक्त्रैस्तथैव च ।
उलूकश्येनवदनैः काकगृध्रमुखैस्तथा ॥
एवं बहुविधाकारैर्भूतसङ्घैर्भृशाकुलम् ।
नानद्यमानं बहुधा हरपारिषदैर्भृशम् ॥
घोररूपं सुदुर्दर्शं रक्षोगणशतैर्वृतम् ।
समाजं तद्वने दृष्टं मया भूतपतेः पुरा ॥
प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् ।
प्रथमे वर्षरात्रे तु मेघसङ्घनिनादितम् ॥
नानाबर्हिणसंघुष्टं गजयूथसमाकुलम् ।
षट्पदैरुपगीतं च प्रथमे मासि माधवे ॥
उत्क्रोशत्क्रौञ्चकुररैः सारसैर्जीवजीवकैः ।
मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् ॥
उत्तमावाससङ्काशं भीमरूपतरं ततः ।
द्रष्टुं भवति धर्मस्य धर्मभागिजनस्य च ॥
ये चोध्वरेतसः सिद्धास्तत्रतत्र समागताः ।
मार्ताण्डरश्मिसञ्चारा विश्वेदेवगणास्तथा ॥
तथा नागास्तथा दिव्या लोकपाला हुताशनाः ।
वाताश्च सर्वे चायान्ति दिव्यपुष्पसमाकुलाः ॥
किरन्तः सर्वपुष्पाणि किरन्तोऽद्भुतदर्शनाः ।
ओषध्यः प्रज्वलन्त्यश्च द्योतयन्त्यो दिशो दश ॥
विहगाश्च मुदा युक्ता नृत्यन्ति च नदन्ति च ।
ततः समन्ततस्तत्र दिव्या दिव्यजनप्रियाः ॥
तत्र देवो गिरितटे हेमधातुविभूषिते ।
पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः ॥
व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः ।
व्यालयज्ञोपवीतश्च लोहितान्त्रविभूषितः ॥
हरिश्मश्रुजटो भीमो भयकर्ताऽमरद्विषाम् ।
भयहेतुरभक्तानां भक्तानामभयङ्करः ॥
किन्नरैर्देवगन्धर्वैः स्तूयमानस्ततस्ततः ।
ऋषिभिश्चाप्सरोभिश्च सर्वतश्चैव शोभितः ॥
तत्र भूतपतेः स्थानं देवदानवसङ्कुलम् ।
सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् ॥
महोरगसमाकीर्णं सर्वेषां रोमहर्षणम् ।
भीमरूपमनिर्देश्यमप्रधृष्यतमं विभोः ॥
तत्र भूतपतिं देवमासीनं शिखरोत्तमे । ऋषयो भूतसङ्घाश्च प्रणम्य शिरसा हरम् ।
गीर्भिः परमशुद्धाभिस्तुष्टुवुस्च मनोहरम् ॥
विमुक्ताश्चैव पापेभ्यो बभूवुर्विगतज्वराः ।
ऋषयो बालकिल्याश्च तथा विप्रर्षयश्च ये ॥
अयोनिजा योनिजाश्च तपःसिद्धा महर्षयः । ततस्तं देवदेवेशं भगवन्तमुपासते ।
ततस्तस्मिन्क्षणे देवी भूतस्त्रीगणसंवृता ।
हरतुल्याम्बरधरा समानव्रतचारिणी ॥
काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् ।
पुष्पवृष्ट्याऽभिवर्षन्ती दिव्यगन्धसमावृता ॥
सरिद्वराभिः सर्वाभिः पृष्ठतोऽनुगता वरा ।
सेवितुं भगवत्पार्श्वमाजगाम शुचिस्मिता ॥
आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् ।
मनःप्रियं चिकीर्षन्ती क्रीडार्थं शङ्करान्तिके ॥
मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु ।
अवेक्ष्य हृष्टा स्वगणान्स्मयन्ती पृष्ठतः स्थिता ॥
देव्या चान्धीकृते देवे कश्मलं समपद्यत ।
निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् ॥
निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् ।
विषण्णं भयवित्रस्तं जगदासीद्भयाकुलम् ॥
हाहाकारमृषीणां च लोकानामभवत्तदा ।
तमोभिभूते सम्भ्रान्ते लोके जीवनसंक्षये ॥
तृतीयं चास्य सम्भूतं ललाटे नेत्रमायतम् ।
द्वादशादित्यसङ्काशं लोकान्भासाऽवभासयत् ॥
तत्रक तेनाग्निना तेन युगान्ताग्निनिभेन वै ।
अदह्यत गिरिः सर्वो हिमवानग्रतः स्थितः ॥
दह्यमाने गिरौ तस्मिन्मृगपक्षिसमाकुले ।
सविद्याधरगन्धर्वे दिव्यौषधसमाकुले ॥
ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना ।
बभूव च जगत्सर्वं तथा विस्मयसंयुतम् ॥
पश्यतामेव सर्वेषां देवदानवरक्षसाम् ।
नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः ॥
तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा ।
पितुः सम्मानमिच्छन्ती पपात भुवि पादूयोः ॥
तं दृष्ट्वा देवदेवेशो देव्या दुःखमनुत्तमम् ।
हैमवत्याः प्रियार्थं च गिरिं पुनरवैक्षत ॥
दृष्टमात्रे भगवता सौम्ययुक्तेन चेतसा ।
क्षणेन हिमवाञ्शैलः प्रकृतिस्थोऽभवत्पुनः ॥
हृष्टपुष्टविहङ्गैश्च प्रफुल्लद्रुमकाननः ।
सिद्धचारणसङ्घैश्च प्रीतियुक्तैः समाकुलः ॥
पितरं प्रकृतिस्थं च दृष्ट्वा हैमवती भृशम् ।
अभवत्प्रीतिसंयुक्ता मुदितात्र पिनाकिनम् ॥
देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् । हितार्तं सर्वलोकानां प्रजानां हितकाम्यया ।
देवदेवं महादेवी बभाषेदं वचोऽर्थवत् ॥
भगवन्देवदेवेश शूलपाणे महाद्युते ।
विस्मयो मे महाञ्जातस्तस्मिन्नेत्राग्निसम्भवे ॥
किमर्थं देवदेवेश ललाटेऽस्मिन्प्रकाशते ।
अतिसूर्याग्निसङ्काशं तृतीयं नेत्रमायतम् ॥
नेत्राग्निना तु महता निर्दग्धो हिमवानसौ ।
पुनः संदृष्टमात्रस्तु प्रकृतिस्थः पिता मम ॥
एष मे संशयो देव हृदि मे सम्प्रवर्तते ।
देवदेव नमस्तुभ्यं तन्मे संसितुमर्हसि ॥
नारद उवाच ।
एवमुक्तस्तया देव्या प्रीयमाणोऽब्रवीद्भवः ।
स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि ॥
त्वदृते मां हि वै प्रष्टुं न शक्यं केन चेत्प्रिये ।
प्रकाशं यदि वा गुह्यं प्रियार्थं प्रब्रवीम्यहम् ॥
शृणु तत्सर्वमकिलमस्यां संसदि भामिनि ।
सर्वेषामेव लोकानां कूटस्थं विद्धि मां प्रिये ॥
मदधीनास्त्रयो लोका यथा विष्णौ तथा मयि ।
स्रष्टा विष्णुरहं गोप्ता इत्येतद्विद्धि भामिनि ॥
तस्माद्यदा मां स्पृशति शुभं वा यदि वेतरत् ।
तथैवेदं जगत्सर्वं तत्तद्भवति शोभने ॥
एतद्गुह्यमजानन्त्या त्वया बाल्यादनिन्दिते ।
मन्नेत्रे पिहिते देवि क्रीडनार्थं दृढव्रते ॥
तत्कृते नष्टचन्द्रार्कं जगदासीद्भयाकुलम् ।
नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये ॥
तृतीयं लोचनं सृष्टं लोकं संरक्षितुं मया ।
कथितं संशयस्थानं निर्विशङ्का भव प्रिये ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

श्रीः