अध्यायः 207

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति स्वस्य श्मशानवासचन्द्रकलाधारणादेः कारणाभिधानम् ॥ 1 ॥

उमोवाच ।

भगवन्सर्वभूतेश शूलपाणे वृषध्वज ।
आवासेषु विचित्रेषु रम्येषु च शुभेशु च ॥
सत्सु चान्येषु भूतेषु श्मशाने रमसे कथम् ।
केशास्थिकलिले भीमे कपालशतसङ्कुले ॥
सृगालगृध्रम्पूर्णे शवधूमसमाकुले ।
चिताग्निविषमे घोरे गहने च भयानके ॥
एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् ।
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥
महादेव उवाच ।
हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते ॥
नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे ।
एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजापतिः ॥
आकुलः सुमहाघोरः प्रादुरासीत्समन्ततः ।
सम्भूता भूतसृष्टिश्च घोरा लोकभयावहा ॥
नानावर्णा विरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः । पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः ।
इतश्चरन्ति निघ्नन्तः प्राणिनो भृशमेव च ॥
एवं लोके प्राणिहीने क्षयं याते पितामहः ।
चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे ॥
एवं ज्ञात्वा ततो ब्रह्मा तस्मिन्कर्मण्योजयत् ।
तच्च प्राणिहितार्थं तु मयाऽप्यनुमतं प्रिये ॥
तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् । अस्माच्छ्मशानान्मेध्यं तु नास्ति किञ्चिदनिन्दिते ।
निःसम्पातान्मनुष्याणां तस्माच्छुचितमं स्मृतं ॥
भूतसृष्टिं च तां चाहं श्मशाने संन्यवेशयम् ।
तत्रस्थः सर्वभूतानां विनिहन्मि प्रिये भयम् ॥
न च भूतगणेनाहं विना वसितुमुत्सहे ।
तस्मान्मे सन्निवासाय श्मशाने रोचते मनः ॥
मेध्यकामैर्द्विजैनित्यं मेध्यमित्यभिधीयते ।
आचरद्भिर्व्रतं नित्यं मोक्षकामैश्च सेव्यते ॥
स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये ।
कपालशतसम्पूर्णमभिरूपं भयानकम् ॥
मध्याह्ने सन्ध्ययोस्तत्र नक्षत्रे रुद्रदेवते ।
आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः ॥
मदन्येन न शक्यं हि निहन्तुं भूतजं भयम् ।
तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिनेदिने ॥
मन्नियोगाद्भूतसङ्घा न च घ्नन्तीह कञ्चन । तांस्तु लोकहितार्ताय श्मशाने रमयान्महम् ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्देवदेवेश त्रिनेत्र वृषभध्वज ।
पिङ्गलं विकृतं भाति रूपं ते तु भयानकम् ॥
भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् ।
व्याघ्रोदरत्वक्संवीतं कपिलश्मश्रुसंततम् ॥
रौद्रं भयानकं घोरं शूलपट्टससंयुतम् ।
किमर्थं त्वीदृशं रूपं तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं कथयिष्यामि शृणु तत्त्वं समाहिता ।
द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये ॥
तयोर्हि ग्रसितं सर्वं सौम्याग्नेयमिदं जगत् ॥
सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम् ।
अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम् ॥
रौद्राकृतिं विरूपाक्षं शूलपट्टससंयुतम् ।
आग्नेयमिति मे रूपं देवि लोकहिते रतम् ॥
यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने ।
तदैव सर्वलोकानां विपरीतं प्रवर्तते ॥
तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्देवदेवेश शूलपाणे वृषध्वज । किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते ।
श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् । पुराऽहं कारणाद्देवि कोपयुक्तः शुचिस्मिते ।
दक्षयज्ञवधार्याय भूतसङ्घैः समावृतः ॥
तस्मिन्क्रतुवरे घोरे यज्ञभागनिमित्ततः ।
देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः ॥
सोमस्तत्र मया देवि कुपितेन भृशार्दितः ।
पश्यंश्चानपराधी सन्पादङ्गुष्ठेन ताडितः ॥
तथापि विकृतेनाहं सामपूर्वं प्रसादितः ।
तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये ॥
तदाप्रभृति सोमं वै शिरसा धारयाम्यम् । एवं मे पापहानिस्तु भवेदिति मतिर्मम ।
तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा ॥
नारद उवाच ।
एवं ब्रुवति देवेशे विस्मिताः परमर्षयः ।
वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम् ॥
ऋषय ऊचुः ।
नमः शङ्कर सर्वेश नमः सर्वजगद्भुरो ।
नमो देवादिदेवाय नमः शशिकलाधर ॥
नमो घोरतराद्धोर नमो रुद्राय शङ्कर ।
नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक ॥
नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख ।
नमो भूतपते शंभो जह्नुकन्याम्बुशेखर ॥
नमस्त्रिशूलहस्ताय पन्नगाभरणाय च ।
नमोस्तु विषमाक्षाय दक्षयज्ञप्रदाहक ॥
नमोस्तु बहुनेत्राय लोकरक्षणतत्पर । अहो देवस्य महात्म्यमहो देवस्य वै कृपा ।
एवं धर्मपरत्वं च देवदेवस्य चार्हति ॥
एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम् ।
सम्प्रीत्यर्थं मुनीनां सा क्षणज्ञा परमं हितम् ॥
उमोवाच ।
भगवन्देवदेवेश सर्वलोकनमस्कृत ।
अस्यैव ऋषिसङ्घस्य मम च प्रियकाम्यया ॥
वर्णाश्रमकृतं धर्मं वक्तुमर्हस्यशेषतः ।
न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः ॥
सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो । वक्तुमर्हसि देवेश लोकानां हितकाम्यया ।
याथातथ्येन तत्सर्वं वक्तुमर्हसि शंकर ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥

श्रीः