अध्यायः 209

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति ऋषिधर्मकथनम् ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश त्रिपुरान्तक शङ्कर ।
अयं त्वृषिगणो देव तपस्तप इति प्रभो ॥
तपसा कर्शितो नित्यं तपोऽर्जनपरायणः । अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा ।
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद ॥
नारद उवाच ।
एवं ब्रुवन्त्यां रुद्राण्यामृषयः साधुसाध्विति ।
अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः ॥
शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन् ॥
ऋषय ऊचुः ।
त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम् । धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः ।
इति सर्वे तदा देवीं वाचा समभिपूजयन् ॥
महेश्वर उवाच ।
न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि ।
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते ॥
वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः ।
बहुशाखो बहुविधो ऋषिधर्मः सनातनः ॥
प्रायशः सर्वभोगार्थमृषिभिः क्रियते तपः ।
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु ॥
भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च ।
कलत्रकार्यं संस्थाप्य कारणात्संत्यजेद्गृहम् ॥
अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः ।
निर्दारो वा सदारो वा वनवासाय संव्रजेत् ॥
देशाः परमपुण्या ये नदीवनसमन्विताः ।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः ॥
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम् ।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् ॥
काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् ।
सकृदालेपनं काये त्यक्तदोषोऽप्रमादिता ॥
सायंप्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि ।
काले शौचं च कार्यं च जटावल्कलधारणम् ॥
सततं वनचर्या च समित्कुसुमकारणात् ।
नीवाराग्रयणं काले शाकमूलोपचायनम् ॥
सदायतनशौचं च तस्य धर्माय चेष्यते ।
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा ॥
पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम् ।
अग्राम्यपचनं काले पितृदेवार्चनं तथा ॥
पश्चादतिथिसत्कारस्तस्य धर्मः सनातनः ।
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः ॥
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा ।
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः ॥
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम् ।
एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् ॥
एवं वै यतमानस्य कालधर्मो यथा भवेत् ।
तथैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते ॥
तत्र संविदिता भोगाः स्वर्गस्त्रीभिरनिन्दिते ।
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु ॥
एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम् ।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।
भगवन्देवदेवेश ऋषीणां चरितं शुभम् ।
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥
वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः ।
वनं गुरुमिवालम्ब्य वस्तुव्यमिति निश्चयः ॥
वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः ।
व्रतोपवासैर्बहुलैर्ग्रीष्मे पञ्चतपैस्तथा ॥
पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः ।
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः ॥
चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा ।
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः ॥
एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः ।
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम् ॥
तत्रापि सुमहत्कालं संविहृत्यि यथासुखम् ।
जायते मानुषे लोके दानभोगसमन्वितः ॥
तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते ॥
उमोवाच ।
भगवन्देवदेवेश तेषु ये दारसंयुताः ।
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि ॥
महेश्व उवाच ।
य एकपत्नीधर्माणश्चरन्ति विपुलं तपः ।
विंध्यपादेषु ये केचिद्ये च नैमिशवासिनः ॥
पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः ।
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः ॥
हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः ।
शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः ॥
प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः ।
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम् ॥
वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः ।
तेषां परिच्छदारम्भाः कृतोपकरणानि च ॥
गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः । पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च ।
गावश्च कर्षणं चैव सर्वमेतद्विधीयते ।
एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः ।
ते स्वदारैः समायान्ति पुण्याँल्लोकान्द्दढव्रताः ॥
पतिभिः सह ये दाराश्चरन्ति विपुलं तपः । अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम् ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥

श्रीः