अध्यायः 211

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतीप्रति निवृत्तिधर्मफलकथनम् ॥ 1 ॥ तथा गार्हस्थ्यप्रशंसनपूर्वकं तद्धर्मफलादिकथनम् ॥ 2 ॥

उमोवाच ।

उक्तस्त्वया त्रिवर्गस्य धर्मश्च परमः शुभः । सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे ।
महेश्वर उवाच ।
ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना ।
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः ॥
तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम् ।
ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः ॥
इमे च धर्मा लोकानां पूर्वं सृष्टाः स्वयंभुवा ।
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे ॥
स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च ।
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ॥
शूद्रो धर्मपरो नित्यं शुश्रूषानिरतो भवेत् ॥
त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः ।
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मः सनातनः ॥
षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा ।
धर्मिष्ठानि वरिष्ठानि तानितानि शृणूत्तमे ॥
यजनं याजनं चैव दानं पात्रे प्रतिग्रहः ।
अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः ॥
नित्यः स्वाध्यायतो धर्मः नित्ययज्ञः सनातनः ।
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु ॥
अयमेव परो धर्मः संवृतः सत्सु विद्यते ।
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् ॥
पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः ।
दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥
चक्षुःश्रोत्रमनोजिह्वास्निग्धवर्णप्रदः सदा ।
अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः ॥
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा ।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः ॥
प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत् ।
सत्कृत्याऽनुव्रजेद्यश्च तस्य धर्मः सनातनः ॥
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते ।
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा ॥
एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता ।
एकेनांशेन कामार्थमेकमंशं विवर्धयेत् ॥
निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते ।
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता ॥
सर्वभूतदया धर्मो निवृत्तेः परम सदा । बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम् ।
अर्चयन्ति वरारोहे तेषामपि फलं महत् ॥
पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥
काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम् ।
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः ॥
तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत् ।
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः ॥
तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा ।
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम् ॥
यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले ।
केदाराश्च तटाकानि सरांसि सरितस्तथा ॥
तोयपूर्णानि दृश्यन्ते अप्रतर्क्योऽतिशोभने ।
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते ॥
पीडयाऽपि च भृत्यानां दानमेव विशिष्यते ।
पुत्रदारधनं धान्यं न मृताननुगच्छति ॥
श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि ।
दानेन हि महाभागा भवन्ति मनुजाधिपाः ॥
नास्ति भूमौ दानसमं नास्ति दानसमो निधिः ।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ॥
आश्रमे यस्तु तप्येत तपो मूलफलाशनः । आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः ।
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् ॥
सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे ।
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् ॥
उमोवाच ।
गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये ।
तथा च देवताः पूज्याः सततं गृहमेधिना ॥
यद्यच्च परिहर्तव्यं गृहीणातिथिपर्वसु ।
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो ॥
महेश्वर उवाच ।
गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम् ।
पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः ॥
सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम् ।
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥
`दंपत्यलङ्करिष्णुश्च गृहदानरतिर्नरः ।
कलत्रसौख्यं विन्देत नास्ति तत्र विचारणा ॥
स्त्रियो वा पुरुषो वाऽपि दम्पतीन्पूजयन्ति ते । मनोभिलषितान्कामान्प्राप्नुवन्ति न संशयः ॥'
शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे ।
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः ॥
तेषुतेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः ।
पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते ॥
उमोवाच ।
मातापितृवियुक्तानां का चर्या गृहमेधिनाम् ।
विधवानां च नारीणां भवानेव ब्रवीतु मे ॥
महेश्वर उवाच ।
देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् ।
अहिंसा सर्वभूतानामलोभः सत्यसन्धता ॥
ब्रह्मचर्यं शरण्यत्वाशौचं पूर्वाभिभाषणम् ।
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता ॥
दिने द्विरभिषेकं च पितृदैवतपूजनम् ।
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि ॥
दीपप्रतिश्रयं चैव दद्यात्पाद्यासनं तथा । पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽथवा ।
तदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् ॥
श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम् ।
नैतेष्वहस्तु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता ॥
व्रतोपवासनियमस्तपो दानं च शक्तितः ।
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम् ॥
परदारान्निवृत्तिश्च स्वदारेषु रतिः सदा । शरीरमेकं दंपत्योर्विधात्रा पूर्वनिर्मितम् ।
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते ॥
शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च ।
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः ॥
प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च ।
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः ॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः ॥
राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः ।
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा ॥
सविद्याः सर्वजीवज्ञाः सर्वे वै विचिकित्सकाः । दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः ।
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम् ॥
मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा । कपोतका कावटकाः सरीसृपनिषेवणाः ।
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम् ॥
एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः ।
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः ॥
गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते ।
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति ॥
धर्म इत्येव सह्कल्प्य यस्तु तस्य फलं शृणु । सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम् ।
वर्षे स द्वादशे देवि फलेनैतेन युज्यते ॥
आशापाशविमोक्षं च विधिधर्ममनुत्तमम् ।
वृक्षमूलचरो नित्यं शून्यागारिनिवेशनमम् ॥
नदीपुलिनशायी च नदीतीरमनुव्रजन् । विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः ।
आत्मन्येवात्मना भावं समायोज्येह तेन वै ।
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा ॥
पवित्रनित्यो युक्तश्च तस्य धर्मःक सनातनः । नैकत्र रमते सक्तो न चैकग्रामगोचरः ।
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाश्रयः ॥
एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥

श्रीः