अध्यायः 212

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति विस्तरेण राजधर्मकथनम् ॥ 1 ॥

उमोवाच ।

देवदेव नमस्तुभ्यं त्र्यक्ष भो वृषभध्वज ।
श्रुतं मे भगवन्सर्वं त्वत्प्रसादान्महेश्वर ॥
सङ्गृहीतं मया तच्च तव वाक्यमनुत्तमम् ।
इदानीमस्ति संदेहो मानुषेष्विह कश्चन ॥
तुल्यप्राणशिरःकायो राजाऽयमिति मृश्यते ।
केन कर्मविपाकेन सर्वप्राधान्यमर्हति ॥
स चापि दण्डयन्मर्त्यान्भर्त्सयन्विधमन्नपि । प्रेत्यभावे कथं लोकाँल्लभते पुण्यकर्मणा ।
राजवृत्तमहं तस्माच्छ्रोतुमिच्छामि मानद ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि राजधर्मं शुभानने ॥
राजायत्तं हि यत्सर्वं लोकवृत्तं शुभाशुभम् ।
महतस्तपसो देवि फलं राज्यमिति स्मृतम् ॥
तपोदानमयं राज्यं परं स्थानं विधीयते ।
तस्माद्राज्ञः सदा मर्त्याः प्रणमन्ति यतस्ततः ॥
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ।
तस्मात्तस्यैव चरितं जगत्पथ्यं शृणु प्रिये ॥
अराजके पुरा त्वासीत्प्रजानां सङ्कुलं महत् । तदृष्ट्वा सङ्कुलं ब्रह्मा मनुं राज्ये न्यवेदयत् ।
तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम् ॥
तन्मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् ।
यथा प्रेत्य लभेत्स्वर्गं यथा वीर्यं यशस्तथा ॥
पित्र्यं वा भूतपूर्वं वा स्वयमुत्पाद्य वा पुनः ।
राज्यधर्ममनुष्ठाय विधिवद्भोक्तुमर्हति ॥
आत्मानमेव प्रथमं विनयैरुपपादयेत् ।
अनु भृत्यान्प्रजाः पश्चादित्येष विनयक्रमः ॥
स्वामिनं चोषमां कृत्वा प्रजास्तद्वृत्तकाङ्क्षया ।
स्वयं विनयसम्पन्ना भवन्तीह शुभेक्षणे ॥
स्वस्मात्पूर्वतरा राजा विनयत्येव वै प्रजाः ।
अपहास्यो भवेत्तादृक्स्वदोषस्यानवेक्षणात् ॥
विद्याभ्यासैर्वृद्धयोगैरात्मानं विनयं नयेत् ।
विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः ॥
इन्द्रियाणां जयो देवि अत ऊर्ध्वमुदाहृतः ।
अजये सुमहान्दोषो राजानं विनिपातयेत् ॥
पञ्चैव स्ववशे कृत्वा तदर्थान्पञ्च शोषयेत् । षडुत्सृज्य यथायोगं ज्ञानेन विनयेन च ।
सास्त्रचक्षुर्नयपरो भूत्वा भृत्यान्समाहरेत् ॥
वृत्तश्रुतकुलोपेतानुपधाबिः परीक्षितान् । अमात्यानुपधातीतान्सोपसर्पाञ्जितेन्द्रियान् ।
योजयेत यथायोगं यथार्हं स्वेषु कर्मसु ॥
अमात्या बुद्धिसम्पन्ना राष्ट्रं बहुजनप्रियम् ।
दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः ॥
अनुरक्तं बलं साम्नामद्वैधं मन्त्रमेव च । एताः प्रकृतयः स्वेषु स्वामी विनयतत्ववित् ।
प्रजानां रक्षणार्थाय सर्वमेतद्विनिर्मितम् ।
आभिः करणभूताभिः कुर्याल्लोकहितं नृपः ॥
आत्मरक्षा नरेन्द्रस्य प्रजारक्षार्थमिष्यते ।
तस्मात्सततमात्मानं संरक्षेदप्रमादवान् ॥
भोजनाच्छादनस्नानाद्बहिर्निष्क्रमणादपि ।
नित्यं स्त्रीगणसंयोगाद्रक्षेदात्मानमात्मवान् ॥
स्वेभ्यश्चैव परेभ्यश्च शश्त्रादपि विषादपि ।
सततं पुत्रदारेभ्यो रक्षेदात्मानमात्मवान् ॥
सर्वेभ्य एव स्थानेभ्यो रक्षेदात्मानमात्मवान् ।
प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् ॥
प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् । प्रजाप्रियं प्रियं तस्य स्वहितं तु प्रजाहितम् ।
प्रजार्तं तस्य सर्वस्वमात्मार्थं न विधीयते ।
प्रकृतीनां हि रक्षार्थं रागद्वेषौ व्युदस्य च । उभयोः पक्षयोर्वादं श्रुत्वा चैव यथातथम् ।
तमर्थं विमृशेद्बुद्ध्या स्वयमातत्वदर्शनात् ॥
तत्वविद्भिश्च बहुभिर्वृद्धैः सह नरोत्तमैः ।
कर्तारमपराधं च देशकालौ नयानयौ ॥
ज्ञात्वा सम्यग्यथाशास्त्रं ततो दण्डं नयेन्नृषु ।
एवं कुर्वंल्लभेद्धर्मं पक्षपातविवर्जनात् ॥
प्रत्यक्षाप्तोपदेशाभ्यामनुमानेन वा पुनः ।
बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् ॥
चारैः कर्मप्रवृत्त्या च तद्विज्ञाय विचारयेत् ।
अशुभं निर्हरेत्सद्यो जोषयेच्छुभमात्मनः ॥
गर्ह्यान्विगर्हयेदेव पूज्यान्सम्पूजयेत्तथा ।
दण्ड्यांश्च दण्डयेद्देवि नात्र कार्या विचारणा ॥
पञ्चावेक्षन्सदा मन्त्रं कुर्याद्बुद्धियुतैर्नरैः ।
कुलवृत्तश्रुतोपेतैर्नित्यं मन्त्रपरो भवेत् ॥
कामकारेण वै मुख्यैर्न च मन्त्रमना भवेत् ।
राजा राष्ट्रहितापेक्षं सत्यधर्माणि कारयेत् ॥
सर्वोद्योगं स्वयं कुर्याद्दुर्गादिषु सदा नृषु ।
देशवृद्धिकरान्भृत्यानप्रमादेन कारयेत् ॥
देशक्षयकरान्सर्वानप्रियांश्च विवर्जयेत् ।
अहन्यहनि सम्पश्येदनुजीविगणं स्वयम् ॥
सुमुखः सुप्रियो दत्त्वा सम्यग्वृत्तं समाचरेत् ।
अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति ॥
असंविश्वास्य वचनं वक्तुं सत्सु न चार्हति ।
नरेनरे गुणान्दोषान्सम्यग्वेदितुमर्हति ॥
स्वेङ्गितं वृणुयाद्धैर्यं न कुर्यात्क्षुद्रसंविदम् ।
परेङ्गितज्ञो लोकेषु भूत्वा संसर्गमाचरेत् ॥
स्वतश्च परतश्चैव परस्परभयादपि ।
अमानुषभयेभ्यश्च स्वाः प्रजाः पालयेन्नृपः ॥
लुब्धाः कठोराश्चाप्यस्य मानवा दस्युवृत्तयः ।
निग्राह्या एव ते राज्ञा सङ्गृहीत्वा यतस्ततः ॥
कुमारान्विनयोद्बोधैर्जन्मप्रभृति योजयेत् ।
तेषामात्मगुणोपेतं यौवराज्येन योजयेत् ॥
प्रकृतीनां यथा न स्याद्राज्यभ्रंशो भवेद्भयम् ।
एतत्संचिन्तयेन्नित्यं तद्विधानं तथार्हति ॥
अराजकं क्षणमपि राज्यं न स्याद्धि शोभने ।
आत्मनोऽनुविधानाय यौवराज्यं सदेष्यते ॥
कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् ।
अन्येषां वृत्तियुक्तानां विशेषं कर्तुमर्हति ॥
आत्मार्थं राज्यतन्त्रार्थं कोशार्थं च समाचरेत् ।
दुर्गाद्राष्ट्रात्समुद्राच्च वणिग्भ्यः पुरुषात्ययात् ॥
परात्मगुणसाराभ्यां भृत्यपोषणमाचरेत् ।
वाहनानां प्रकुर्वीत पोषणं योधकर्मसु ॥
सादरः सततं भूत्वा अवेक्षाव्रतमाचरेत् ।
चतुर्दा विभजेत्कोशं धर्मभृत्यात्मकारणात् ॥
आपदर्थं च नीतिज्ञो देशकालवशेन तु ।
अनाथान्व्यथितान्वृद्धान्स्वे देशे पोषयेन्नृपः ॥
सन्धिं च विग्रहं चैव तद्विशेषांस्तथा पारन् ।
यथावत्संविमृश्यैव बुद्धिपूर्वं समाचरेत् ॥
सर्वेषां सम्प्रियो भूत्वा मण्डलं सततं चरेत् ।
शुभेष्वपि च कार्येषु च चैकान्तः समाचरेत् ॥
स्वतश्च परतश्चैव व्यसनानि विमृश्य सः ।
परेणि धार्मिकान्योगान्नातीयाद्द्वेषलोभतः ॥
रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस्तु रक्षणम् ।
कुनृपैः पीडितास्तस्मात्प्रजाः सर्वत्र पालयेत् ॥
यात्राकालेऽनवेक्ष्यैव पश्चात्कोपफलोदयः ।
तद्युक्ताश्चापदश्चैव शासनादिति चिन्तयेत् ॥
व्यसनेभ्यो बलं रक्षेन्नयतो व्ययतोपि वा ।
प्रायशो वर्जयेद्युद्धं प्राणरक्षणकारणात् ॥
कारणादेवि योद्धव्यं नात्मनः परदोषतः ।
सुयुद्धे प्राणमोक्षश्च तस्य धर्माय इष्यते ॥
अभियुक्तो बलवता कुर्यादापद्विधिं नृपः ।
अनुनीय तथा सर्वान्प्रजानां हितकारणात् ॥
अन्यप्रकृतियुक्तानां राज्ञां वृत्तिविचारिणाम् ।
अन्यांश्चापत्प्रपन्नानां न तान्संयोक्तुमर्हति ॥
शुभाशुभं यदा देवि व्रतं तूभयसाधनम् । आत्मैव तच्छुभं कुर्यादशुभं योजयेत्परान् ।
एवमुद्देशतः प्रोक्तमलेपत्वं यथा भवेत् ।
एष देवि समासेन राजधर्मः प्रकीर्तितः ॥
एवं संवर्तमानस्तु दण्डयन्भर्त्सयन्प्रजाः ।
निष्कल्मषमवाप्नोति पद्मपत्रमिवाम्भसा ॥
एवं संवर्तमानस्य कालधर्मो यदा भवेत् ।
स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते ॥
द्विविधं राज्यवृत्तं च न्यायभाग्यसमन्वितम् ।
एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे ॥
राज्यं न्यायानुगं तात बुद्धिशास्त्रानुगं भवेत् ।
धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् ॥
राज्यं भाग्यानुगं नाम अयथावत्प्रदृश्यते । तत्तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत् ।
अधर्म्यमयशस्यं च दुरन्तं च भवेद्ध्रुवम् ॥
यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः ।
तत्र भाग्यवशाद्भृत्या लभन्ते न विशेषतः ॥
यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः ।
यत्र सन्तोपि हन्यन्ते तत्र भाग्यानुगं भवेत् ॥
शुभाशुभं यथा यत्र विपरीतं प्रदृश्यते ।
राज्ञि चासुरपक्षे तु तत्र भाग्यानुगं भवेत् ॥
भाग्यानुगे तु राजानो वर्तमाना यथातथा ।
प्राप्याकीर्तिमनर्थं च इह लोके शुभेक्षणे ॥
परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् ।
तिष्ठन्ति नरके देवि प्रलयान्तादिति स्थितिः ॥
मोक्षं दुष्कृतिनां चापि विद्यते कालपर्ययात् ।
नास्त्येव मोक्षणं देवि राज्ञां दुष्कृतिकारिणाम् ॥
एतत्सर्वं समासेन राजवृत्तं शुभाशुभम् ।
कथितं ते महाभागे भूयः श्रोतुं किमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

श्रीः