अध्यायः 220

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेणोमांप्रति अन्धत्वपङ्गुत्वादिनानादोषकारणीभूतानां दुष्कर्मणां विशिष्य कथनम् ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश मम प्रीतिविवर्धन । `जात्यन्धाश्चैव दृश्यन्ते जाता वा नष्टचक्षुषः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् ॥
ये पुरा कामकारेणि परवेश्मसु लोलुपाः ।
परस्त्रियोऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषाः ॥
अन्धीकुर्वन्ति यन्मर्त्यान्क्रोधलोभसमन्विताः ।
लक्षणज्ञाश्च रूपेषु अयथावत्प्रदर्शकाः ॥
एवं युक्तसमाचाराः कालधर्मवशास्तु ते ।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥
यदि चेन्मानुषं जन्म लभेरंस्ते तथापि वा । स्वभावतो वा जाता वा अन्धा एव भवन्ति ते ।
अक्षिरोगयुता वाऽपि नास्ति तत्र विचारणा ॥
उमोवाच ।
मुखरोगयुताः केचिद्दृश्यन्ते सततं नराः ।
दन्तकण्ठकपोलस्थैर्व्याधिभिर्बहुपीडिताः ॥
आदिप्रभृति वै मर्त्या जाता वाऽप्यथ कारणात् ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु देवि समाहिता ॥
कुवक्तारस्तु ये देवि जिह्वया कटुकं भृशम् ।
असत्यं परुषं घोरं गुरून्प्रति परान्प्रति ॥
जिह्वाबाधां तदाऽन्येषां कुर्वते कोपकारणात् । प्रायशोऽनृतभूयिष्ठा नराः कार्यवशेन वा ।
तेषां जिह्वाप्रदेशस्था व्याधयः सम्भवन्ति ते ॥
कुश्रोतारस्तु ये चार्यं परेषां कर्णनाशकाः ।
कर्णरोगान्बहुविधाँल्लभन्ते ते पुनर्भवे ॥
दन्तरोगशिरोरोगकर्णरोगास्तथैव च ।
अन्ये दुःखाश्रिता दोषाः सर्वे चात्मकृतं फलम् ॥
उमोवाच ।
पीड्यन्ते सततं देव मानुषेष्वेव केचन ।
कुक्षिपक्षाश्रितैर्दोषैर्व्याधिभिश्चोदराश्रितैः ॥
तीक्ष्णिशूलैश्च पीड्यन्ते नरा दुःखपरिप्लुताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि कामक्रोधवशा भृशम् ।
आत्मार्थमेव चाहारं भुञ्जन्ते निरपेक्षकाः ॥
अभक्ष्याहारदानैश्च विश्वस्तानां विषप्रदाः ।
अभक्ष्यभक्षदाश्चैव शौचमङ्गलवर्जिताः ॥
मांसयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
कथञ्चित्प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः ॥
तैस्तैर्बहुविधाकारैर्व्याधिभिर्दुःखसंश्रिताः ।
भवन्त्येवं तथा देवि यथा चैवं तथा कृतम् ॥
उमोवाच ।
दृश्यन्ते सततं देव व्याधिभिर्मेहनाश्रितैः । पीड्यमानास्तथा मर्त्या अश्मरीशर्करादिभिः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि परदारप्रधर्षकाः ।
तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च ॥
कामदोषेणि ये धूर्ताः कन्यासु विधवासु च ।
बलात्कारेण गच्छन्ति रूपदर्पसमन्विताः ॥
तादृशा मरणं पुनर्जन्मनि शोभने । यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
मेहनस्थैस्तथा घोरैः पीड्यन्ते व्यधिभिः प्रिये ॥
उमोवाच ।
भगवन्मानुषाः केचिद्दृश्यन्ते शोषिणः कृशाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः ।
आत्मार्थे स्वादुगृद्धाश्च परभोगोपतापिनः ॥
अभ्यसूयाश्चोपतापाः परभोगेषु ये नराः ।
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ॥
शेषव्याधियुतास्तत्र नरा धमनिसंतताः ।
भवन्त्येव नरा देवि पापकर्मोपभोगिनः ॥
उमोवाच ।
भगवन्मानुषाः केचित्क्लिश्यन्ते कण्ठरोगिणः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि परेषां रूपनाशनाः ।
आघातवधबन्धैश्च वृथा दण्डेन मोहिताः ॥
इष्टनाशकरा ये तु अपथ्याहारदा नराः ।
चिकित्सका वा दुष्टास्च द्वेषलोभसमन्विताः ॥
निर्दयाः प्राणिहिंसायां मलदाश्चित्तनाशनाः ।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ॥
यदि वै मानुषं जन्म लभेरंस्तेषु दुःखिताः ।
अत्र ते क्लेशसंयुक्ताः कण्ठरोगशतैर्वृताः ॥
केचित्त्वग्दोषसंयुक्ता व्रणकुष्ठैश्च संयुताः । श्वित्रकुष्ठयुता वाऽपि बहुधा कृच्छ्रसंयुताः ।
भवन्त्येव नरा देवि यथा तेन कृतं फलम् ॥
उमोवाच ।
भगवन्मानुषाः केचिदङ्गहीनाश्च पङ्गव ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि लोभमोहसमावृताः । प्राणिनां प्राणहिंसार्थमङ्गविघ्नं प्रकुर्वते ।
शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः ॥
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने । तदङ्गहीना वै प्रेत्य भवन्त्येव न संशयः ।
स्वभावतो वा जाता वा पङ्गवश्च भवन्ति ते ॥
उमोवाच ।
भगवन्मानुषाः केचिद्ग्रन्थिभिः पिलकैस्तथा ।
क्लिश्यमानाः प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् । मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः ।
पाटकास्तोटकाश्चैव शूलतुन्नास्तथैव च ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
ग्रन्थिभिः पिलकैश्चैव क्लिश्यन्ते भृशदुःखिताः ॥
उमोवाच ।
भगवन्मानुषाः केचित्पादरोगसमन्विताः ।
दृश्यन्ते सततं देव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि क्रोधलोभसमन्विताः । मनुजा देवतास्थानं स्वपादैर्भ्रंशयन्त्युत ।
जानुभिः पार्ष्णिभिश्चैव प्राणिहिंसां प्रकुर्वते ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
पादरोगैर्बहुविधैर्बाध्यन्ते विपदादिभिः ॥
उमोवाच ।
भगवन्मानुषाः केचिद्दृश्यन्ते बहवो भुवि ।
वातजैः पित्तजै रोगैर्युगपत्सान्निपातकैः ॥
रोगैर्बहुविधैर्देव क्लिश्यमानाः सुदुःखिताः । असमस्तैः समस्तैश्च आढ्या वा दुर्गतास्तथा ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥
ये पुरा मनुजा देवि त्वासुरं भावमाश्रिताः ।
स्ववशाः कोपनपरा गुरुविद्वेषिणस्तथा ॥
परेषां दुःखजनका मनोवाक्कायकर्मभिः ।
छिन्दन्भिन्दन्स्तुदन्नेव नित्यं प्राणिषु निर्दयाः ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । यदि वै मानुषं जन्म लभेरंस्ते तथाविधाः ।
तत्र ते बहुभिर्घोरैस्तप्यन्ते व्याधिभिः प्रिये ॥
केचिद्वातादिसंयुक्ताः केचित्काससमन्विताः ।
ज्वरातिसारतृष्णाभिः पीड्यमानास्तथा परे ॥
पादगुल्मैश्च बहुभिः श्लेष्मदोषसमन्विताः । पादरोगैश्च विविधैर्व्रणकुष्ठभगंदरैः ।
आढ्या वा दुर्गता वाऽपि दृश्यन्ते व्याधिपीडिताः ।
एवमात्मकृतं कर्म भुञ्जन्ते तत्रतत्र ते । अभिभूतुं न शक्यं हि केनचित्स्वकृतं फलम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥

श्रीः