अध्यायः 221

अथ दानधर्मपर्व ॥ 1 ॥

ईश्वरेण पार्वतींप्रति प्राणिनामङ्गविकृत्यनपत्यतादिदोषहेतुभूतदुष्कर्मप्रतिपादनम् ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश भूतपाल नमोस्तु ते ।
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा ॥
अपरे मानुषा देव दृश्यन्ते कुणिबाहवः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि लोभमोहसमन्विताः ।
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात् ॥
कुलदोषं तदा देवि धृतमानेषु नित्यशः ।
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये ॥
अङ्गदोषकरा ये तु परेषां कोपकारणात् ।
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते ॥
उमोवाच ।
भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै । उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि दर्पाहंकारसंयुताः ।
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम् ॥
मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात् । वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च ।
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः ॥
उमोवाच ।
भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः । यतन्तो न लभन्त्येव अपत्यानि यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः ।
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि ॥
गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः ।
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते ।
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा ॥
उमोवाच ।
भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः ।
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः ॥
नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः ।
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च ॥
ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः ।
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः ॥
उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात् ।
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः ॥
ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान् ।
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः ॥
येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान् ।
एवंयुक्तसमाचाराः कालधर्मगताः पुनः ॥
पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये ।
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः ॥
कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले ।
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः ॥
उमोवाच ।
भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः । म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि धनधान्यसमन्विताः ।
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा ॥
अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः ।
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे ।
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्रतत्र वै ॥
उमोवाच ।
भगवन्भगनेत्रघ्न मानुषेषु च केचन ।
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा ॥
नीचकर्मरता नीचा नीचसक्यास्तथा भुवि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥
ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा ।
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च ॥
पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात् ।
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः ॥
कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् । एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते ।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते ॥
नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः ।
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा ॥
यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात् ।
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये ॥
स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥

श्रीः