अध्यायः 224

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेण पार्वतींप्रति मर्त्यामर्त्यानां शरीरभेदाभेदेन कर्मफलभोगोक्तिः ॥ 1 ॥

उमोवाच ।

भगवन्देवदेवेश लोकपालनमस्कृत ।
प्रसादात्ते महादेव श्रुता मे कर्मणां गतिः ॥
सङ्गृहीतं च तत्सर्वं तत्वतोऽमृतसंनिभम् ।
कर्मणा ग्रथितं सर्वमिति वेद शुभाशुभम् ॥
गोवत्सवच्च जननीं निम्नं सलिलवत्तथा ।
कर्तारं स्वकृतं कर्म नित्यं तदनुधावति ॥
कृतस्य कर्मणश्चेह नाशो नास्तीति निश्चयः ।
अशुभस्य शुभस्यापि तदप्युपगतं मया ॥
भूय एव महादेव वरद प्रीतिवर्धन ।
कर्मणां गतिमाश्रित्य संशयान्मोक्तुमर्हसि ॥
महेश्वर उवाच ।
यत्ते विवक्षितं देवि गुह्यमप्यसितेक्षणे ।
तत्सर्वं निर्विशंका त्वं पृच्छ मां शुभलक्षणे ॥
उमोवाच ।
एवं व्यवस्थिते लोके कर्ममां वृषभध्वज ।
कृत्वा तत्पुरुषः कर्म शुभं वा यदि वेतरत् ॥
कर्मणः सुकृतस्येह कदा भुङ्क्ते फलं पुनः ।
इह वा प्रेत्य वा देव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
स्थाने संशयितं देवि तद्धि गुह्यतमं नृषु ।
त्वत्प्रियार्थं प्रवक्ष्यामि देवि गुह्यं शुभानने ॥
पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः । इहैव यत्कृतं पुंसां तत्परत्र फलिष्यतै ।
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥
देवानामसुराणां च अमरत्वात्तपोबलात् । एकेनैव शरीरेण भुज्यते कर्मणां फलम् ।
मानुषैर्न तथा देवि अन्तरं त्वेतदिष्यते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंसत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

श्रीः