अध्यायः 228

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेण पार्वतींप्रति प्राणिनां फलनित्पत्तौ दैवपुरुषकारयोः परस्परसापेक्षत्वेन साधनत्वोक्तिः ॥ 1 ॥ तथाऽण्डजरायुजानां गर्भप्रवेशादिप्रकारकथनम् ॥ 2 ॥

उमोवाच ।

भगवन्सर्वभूतेश लोके कर्मक्रियापथे ।
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः ॥
अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् । पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम ।
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ।
तदेवं कुरुते कर्म लोके देवि शुभाशुभम् ॥
लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु ।
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा ॥
अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते ।
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम् ॥
मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम् ।
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु ॥
लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम् ।
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा ॥
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ।
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे ॥
सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥
उमोवाच ।
भगवन्सर्वलोकेश सुरासुरनमस्कृत । कथमात्मा सदा गर्भं संविशेष्कर्मकारणात् ।
तन्मे वद महादेव तद्धि गुह्यं परं मतम् ॥
महेश्वर उवाच ।
शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये ।
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम् ॥
देवासुरास्तन्न विदुरात्मनो हि गतागतम् ।
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात् ॥
अतिमायेति मायानामात्ममाया सेदष्यते । सोयं चतुर्विधां जातिं संविशत्यात्ममायया ।
मैथुनं शोणितं बीजं दैवमेवात्र कारणम् ॥
बीजशोणितसंयोगे यदा सम्भवते शुभे ।
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे ॥
एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान् ॥
कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत् ।
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात् ॥
एवं विवर्धमानेन कर्मात्मा सह वर्धते ।
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे ॥
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ॥
काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च ।
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम् ॥
पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा ।
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते ॥
तादृशं कारणं दैवं शुभं वा यदि वेतरत् ।
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम् ॥
केवलं फलनिष्पत्तिरेकेन तु न शक्यते । पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये ।
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा ॥
पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता ।
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात् ॥
खननान्मथनाल्लोके जलाग्निप्रापणं यथा ।
तथा पुरुषकारे तु दैवसम्पत्समाहिता ॥
नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते ।
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः ॥
असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः ।
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः ॥
प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः ।
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम् ॥
आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम् ।
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः ॥
यथैवात्मकृतं विद्युर्देशान्तरगता नराः ।
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम् ॥
एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन् ।
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा ॥
देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत् ।
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि ॥
इत्येवमनुचिन्त्यैव मानुषान्सममोहयत् ।
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम् ॥
कामक्रोधौ तु तत्काले मानुषेष्ववपातयत् ।
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे ॥
पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः ।
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः ॥
अकार्यादिमहादोषानाहरन्त्यात्मकारणात् ।
विस्मृत्य धर्मकार्याणि परलोकभयं तदा ॥
एवं व्यवस्थिते लोके कश्मलं समपद्यत । लोकानां चैव देवानां क्षयायैव तथा प्रिये ।
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः ॥
पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः । अचिन्तयत्तमेवार्थं लोकानां हितकारणात् ।
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः ॥
चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये ।
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा ॥
उमोवाच ।
भगवन्मृतमात्रस्तु योयं जात इति स्मृतः ।
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत् ॥
गर्भादावेव संविष्ट आत्मा तु भगवन्मम ।
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ।
अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः । पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते ।
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत् ॥
सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् ।
समकर्मविधानत्वादित्येवं विद्धि शोभने ॥
काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि । मायासंयामिका नाम यज्जन्ममरणान्तरे ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।
भगवन्सर्वलोकेश लोकनाथ वृषध्वज ।
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते ॥
स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा ।
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः ॥
तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा ।
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः ॥
परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् ।
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे ॥
पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि ।
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः ॥
प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा ।
कौतूहलयुता श्रोतुं समाहितमनाऽभवत् ॥
महेश्वर उवाच ।
नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः ।
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम् ॥
सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव ।
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः ॥
कामान्संछिद्य परिगान्धृत्या वै परमासिना ।
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः पलम् ॥
एवं श्रद्धाफलं लोके परतः सुमहत्फलम् ।
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम् ॥
तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः ।
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः ॥
श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः ।
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम् ॥
नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः ।
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि ॥
एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः ।
किंपुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः ॥
केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया ।
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात् ॥
दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः । बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा ।
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥

श्रीः