अध्यायः 231

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेण पार्वतींप्रति शुभाशुभकर्मणां मानसिकत्वादिभेदेन त्रैविध्यकथनपूर्वकं तत्तत्फलनिरूपणम् ॥ 1 ॥ तथा मद्योत्पत्तिकारणादिकथनपूर्वकं तत्पानजदोषादिप्रतिपादनम् ॥ 2 ॥

उमोवाच ।

भगवन्देवदेवेश शूलपाणे वृषध्वज ।
श्रुतं मे परमं गुह्यं प्रसादात्ते वरप्रद ॥
श्रोतुं भूयोऽहमिच्छामि प्रजानां हितकारणात् ।
शुभाशुभमिति प्रोक्तं कर्म स्वस्वं समासतः ॥
तन्मे विस्तरतो ब्रूहि शुभाशुभविधइं प्रति ।
अशुभं कीदृशं कर्म प्राणिनो यन्निपातयेत् ॥
शुभं वापि कथं देव प्रजानामूर्ध्वदं भवेत् ।
एतन्मे वद देवेश श्रोतुकामाऽस्मि कीर्तय ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि तत्सर्वं शृणु शोभने ।
सुकृतं दुष्कृतं चेति द्विविधं कर्मविस्तरम् ॥
तयोर्यद्दुष्कृतं कर्म तच्च सञ्जायते त्रिधा ।
मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवात् ॥
मनःपूर्वं तु वा कर्म वर्तते वाङ्मयं ततः ।
जायते वै क्रियायोगमनु चेष्टाक्रमः प्रिये ॥
अभिद्रोहोऽभ्यसूया च परार्थेषु च वै स्पृहा ।
शुभाशुभानां मर्त्यानां वर्तनं परिवारितम् ॥
धर्मकार्ये यदाऽश्रद्धा पापकर्मणि हर्षणम् ।
एवमाद्यशुभं कर्म मनसा पापमुच्यते ॥
अनृतं यच्च परुषमबद्धवचनं कटु ।
असत्यं परिवादश्च पापमेतत्तु वाङ्मयम् ॥
अगम्यागमनं चैव परदारनिषेवणम् ।
वधबन्धपरिक्लेशैः परप्राणोपतापनम् ॥
चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा ।
अभक्ष्यभक्षणं चैव व्यसनेष्वविषङ्गता ॥
दर्पात्स्तम्भाभिमानाच्च परेषामुपतापनम् ।
अकार्याणां च करणमशौचं पानसेवनम् ॥
दौःशील्यं पापसम्पर्के साहाय्यं पापकर्मणि । अधर्म्यमयशस्यं च कार्यं तस्य निषेवणम् ।
एवमाद्यशुभं चान्यच्छारीरं पापमुच्यते ॥
मानसाद्वाङ्मयं पापं विशिष्टमिति लक्ष्यते ।
वाङ्मयादपि वै पापाच्छारीरं गण्यते बहु ॥
एवं पापयुतं कर्म त्रिविधं पातयेन्नरम् ।
परापकारजननमत्यन्तं पातकं स्मृतम् ॥
त्रिविधं तत्कृतं पापं कर्तारं पापकं नयेत् ।
पातकं चापि यत्कर्म कर्मणा बुद्धिपूर्वकम् ॥
सापदेशमवश्यं तत्कर्तव्यमिति तत्कृतम् ।
कथञ्चित्तत्कृतमपि कर्ता तेन स लिप्यते ॥
अवश्यं पापदेशेन प्रतिहृन्येत कारणम् ॥
उमोवाच ।
भगवन्पापकं कर्म यथा कृत्वा न लिप्यते ॥
महेश्वर उवाच ।
यो नरोऽनपराधी च स्वात्मप्राणस्य रक्षणात् । शत्रुमुद्यतशस्त्रं वा पूर्वं तेन हतोपि वा । प्रतिहन्यान्नरो हिंस्यान्न स पापेन लिप्यते ॥
चोरादधिकसंत्रस्तस्तत्प्रतीकारचेष्टया ।
यः प्रजघ्नन्नरो हन्यान्न स पापेन लिप्यते ॥
ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् ।
वधबन्धपरिक्लेशान्कुर्वन्पापात्प्रमुच्यते ॥
दुर्भिक्षे चात्मवृत्त्यर्थमेकायतनगस्तथा । अकार्यं वाऽप्यभक्ष्यं वा कृत्वा पपान्न लिप्यते
विधिरेष गृहस्थानां प्रायेणैवोपदिश्यते ।
अवाच्यं वाऽप्यकार्यं वा देशकालवशेन तु ॥
बुद्धिपूर्व नरः कुर्वस्तत्प्रयोजनमात्रया ।
किञ्चिद्वा लिप्यते पापैरथवा न च लिप्यते ॥
एवं देवि विजानीहि नास्ति तत्र विचारणा ॥
उमोवाच ।
भगवन्पानदोषांश्च पेयापेयत्वकारणम् ।
एतदिच्छाम्यहं श्रोतुं तन्मे वद महेश्वर ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते ॥
पुरा सर्वेऽभवन्मर्त्या बुद्धिमन्तो नयानुगाः ।
शुचयश्च शुभाचाराः सर्वे चोन्मनसः प्रिये ॥
एवंभूते तदा लोके प्रेष्यकृन्न परस्परम् ।
प्रेष्याबावान्मनुष्याणां कर्मारम्भो ननाश ह ॥
उभयोर्लोकयोर्नाशं दृष्ट्वा कर्मक्षयात्प्रभुः ।
यज्ञकर्म कथं लोके वर्तेतेति पितामहः ॥
आज्ञापयत्सुरान्देवि मोहयस्वेति मानुषान् । तमसः सारमुद्धृत्य पानं बुद्धिप्रणाशनम्इ ।
न्यपातयन्मनुष्येषु पापदोषावहं प्रिये ॥
तदाप्रभृति तत्पानान्मुमुहुर्मानवा भुवि ।
कार्याकार्यमजानन्तो वाच्यावाच्यं गुणागुणम् ॥
केचिद्धसन्ति तत्पीत्वा प्रवदन्ति तथा परे । नृत्यन्ति मुदिताः केचिद्गायन्ति शुभाशुभान् ।
कलिं ते कुर्वतेऽभीष्टं प्रहरन्ति परस्परम् ।
क्वचिद्धावन्ति सहसा प्रस्खलन्ति पतन्ति च ॥
अयुक्तं बहु भाषन्ते यत्र क्वचन शोभने ।
नग्ना विक्षिप्य गात्राणि नष्टज्ञाना इवासते ॥
एवं बहुविधान्भावान्कुर्वन्ति भ्रान्तचेतनाः ।
ये पिबन्ति महामोहं पानं पापयुता नराः ॥
धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् ।
तस्मान्नराः सम्भवन्ति निर्लज्जा निरपत्रपाः ॥
बुद्धिसत्वैः परिक्षीणास्तेजोहीना मलान्विताः ।
पीत्वापीत्वा तृषायुक्ताः पानपाः सम्भवन्ति च ॥
पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः ।
पानार्थं कर्मवश्यास्ते सम्भवन्ति नराधमाः ॥
पानकामास्तृषायोगाद्बुद्धिसत्वपरिक्षयात् ।
पानदानां प्रेष्यकाराः पानपाः सहसाऽभवन् ॥
तदाप्रभृति वै लोके दीनैः पानवशैर्नरैः ।
कारयन्ति च कर्माणि बुद्धिमन्तस्तु पानपाः ॥
कारुत्वमथ दासत्वं प्रेष्यतामेत्य पानपाः ।
सर्वकर्मकराश्चासन्पशुवद्रज्जुबन्धिताः ॥
पानपस्तु सुरां पीत्वा तदा बुद्धिप्रणाशनात् । कार्याकार्यस्य चाज्ञानाद्यथेष्टकरणात्स्वयम् ।
विदुषामविधेयत्वात्पापमेवाभिपद्यते ॥
परिभूतो भवेल्लोके मद्यपो मित्रभेदकः ।
सर्वकालमशुद्धिं च सर्वभक्षस्तथा भवेत् ॥
विनष्टो ज्ञातिविद्वद्भ्यः सततं कलिभावगः ।
परुषं कटुकं घोरं वाक्यं वदति सर्वशः ॥
गुरूनतिवदेन्मत्तः परदारान्प्रधर्षयेत् ।
संविदं कुरुते शौण्डेर्न शृणोति हितं क्वचित् ॥
एवं बहुविधा दोषाः पानपे सन्ति शोभने । केवलं नरकं यान्ति नास्ति तत्र विचारणा ।
तस्मात्तद्वर्जितं सद्भिः पानमात्महितैषिभिः ॥
यदि पानं न वर्जेरन्सन्तश्चारित्रकारणात् ।
भवेदेतज्जगत्सर्वममर्यादं च निष्क्रियम् ॥
तस्माद्बुद्धेर्हि रक्षार्थं सद्भिः पानं विवर्जितम् ।
इति ते दुष्कृतं सर्वं कथितं त्रिविधं प्रिये ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽद्यायः ॥ 231 ॥

7-231-47 विनष्टो ज्ञानविद्वद्भ्य इति ङ.थ.पाठः ॥

श्रीः