अध्यायः 232

अथ दानधर्मपर्व ॥ 1 ॥

परमेश्वरेणि पार्वतींप्रति सुकृतस्य त्रेधा विभजनेन तल्लक्षणादिकथनम् ॥ 1 ॥

महेश्वर उवाच ।

विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते ।
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः ॥
यदौपरमिकं चैव सुकृतं निरुपद्रवम् ।
तथैव सोपकरणं तावता सुकृतं विदुः ॥
निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये ।
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम् ॥
त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया ।
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् ॥
प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा । तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः ।
दोषसाकल्यसंत्यागान्मुनिर्भवति मानवः ॥
सौकर्यं पस्य धर्मस्य कार्यारम्भादृतेऽपि च ।
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम् ॥
अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः ।
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः ॥
दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते ॥
पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् । सुशोभनो भवेद्देवि क्रजुर्धर्मव्यपेक्षया ।
इत्यौपरमिकं देवि कथितं सुकृतं तव ॥
श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् ।
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम् ॥
तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये । यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये ।
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम् ॥
ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् ।
सफलो दोषसंत्यागो दानादपि शुभादपि ॥
तपो दानं महादेवि दोषमल्पं हि निर्भरेत् ।
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम् ॥
सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम् ।
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः ॥
एवमादि शुभं कर्म सुकृतं नियमाश्रितम् ।
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि ॥
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः ॥
यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्यलक्षणम् ॥
यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् ।
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता ॥
दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः ।
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः ॥
उमोवाच ।
कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात् ॥
महेश्वर उवाच ।
पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः ।
व्रतवत्तस्य संत्यागस्तपोव्रतमिति स्मृतम् ॥
त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन् ।
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत् ॥
शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि ।
पञ्चभूतानि चन्द्रार्कौ संध्ये धर्मयमौ पितॄन् ॥
आत्मनैव तथाऽऽत्मानं निवेद्य व्रतवच्चरेत् ।
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत् ॥
शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु ।
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा ॥
एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा । व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः ।
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे ॥
औषधार्थं यदज्ञानाद्गुरूणां वचनादपि ।
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते ॥
व्रतापवर्गकाले तु दैवब्राह्मणपूजनम् ।
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽऽप्तुयात् ॥
उमोवाच ।
कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते ।
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम् ॥
सदाऽऽहारविशुद्धिश्च कायप्रक्षालनं च यत् ।
बाह्यशौचं भवेदेतत्तथैवाचमनादिना ॥
मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च । द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च ।
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः ॥
अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम् ।
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत् ॥
त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः । तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत् ।
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत् ॥
शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम् ।
तक्षणं घर्षणं चैव दारवाणां विशोधनम् ॥
दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम् । शेषाणां देवि सर्वेषामातपेन जलेन च ।
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् ॥
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते । एवमापदि संशुद्धिरेवं शौचं विधीयते ।
उमोवाच ।
आहारशुद्धिस्तु कथं देवदेव महेश्वर ॥
महेश्वर उवाच ।
अमांसमद्यमक्लेद्यमपर्युषितमेव च ।
अतिकट्वम्ललवणहनं च शुभगन्धि च ॥
क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम् ।
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम् ॥
श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम् ।
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय ॥
अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि । यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् ।
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

श्रीः