अध्यायः 233

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेणोमांप्रति मांसभक्षणाभक्षणयोर्दोषगुणकथनम् ॥ 1 ॥ गुरुप्रशंसनपूर्वकं तत्पूजादिफलकथनम् ॥ 2 ॥ तथा तीर्थस्नानोपवासादिफलकथनम् ॥ 3 ॥

उमोवाच ।

भक्षयन्त्यपरे मांसं वर्जयन्त्यपरे विभो ।
तन्मे वद महादेव भक्ष्याभक्ष्यविनिर्णयम् ॥
महेश्वर उवाच ।
मांसस्य भक्षणे दोषो यश्चास्याभक्षणे गुणः ।
तदहं कीर्तयिष्यामि तन्निबोध यथातथम् ॥
इष्टं दत्तमधीतं च क्रतवश्च सदक्षिणाः ।
अमांसभक्षणस्यैव कलां नार्हन्ति षोडशीम् ॥
आत्मार्थं यः परप्राणान्हिस्यात्स्वादुफलेप्सया ।
व्यालगृध्रसृगालैश्च राक्षसैश्च समस्तु सः ॥
यो वृथा नित्यमांसाशी स पुमानधमो भवेत् ।
ततः कष्टतरं नास्ति स्वयमाहृत्य भक्षणात् ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
उद्विग्नवासं लभते यत्रयत्रत्रोपजायते ॥
संछेदनं स्वमांसस्य यथा सञ्जनयेद्रुजम् ।
तथैव परमांसेऽपि वेदितव्यं विजानता ॥
यस्तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत् ।
स स्वर्गे विपुलं स्थानं लभते नात्र संशयः ॥
यत्तु वर्षशतं पूर्णं तप्यते परमं तपः ।
यच्चापि वर्जयेन्मांसं सममेतन्न वा समम् ॥
न हि प्राणैः प्रियतमं लोके किञ्चन विद्यते ।
तस्मात्प्राणिदया कार्या यथात्मनि तथा परे ॥
सर्वे यज्ञा न तत्कुर्युः सर्वे देवाश्च भामिनि ।
यो मांसरसमास्वाद्य पुनर्मासं विवर्जयेत् ॥
इत्येवं मुनयः प्राहुर्मांसस्याभक्षणे गुणाः ।
एवं बहुगुणं देवि नृणां मांसविवर्जनम् ॥
न शक्नुयाद्यदाऽतीय त्यक्तं मांसं कथञ्चन ।
पुण्यं तन्मासमात्रं वा वर्जनीयं विशेषतः ॥
न शक्नुयादपि तथा कौमुदीमासमेव च । जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु ।
वर्जनीयं तथा मांसं परत्रि हितमिच्छता ।
अशक्तः कारणान्मर्त्यो भोक्तुमिच्छेद्विधिं शृणु ।
अनेनि खादन्विधिना कलुषेण न लिप्यते ॥
सूनायां च गतप्राणान्क्रीत्वा न्यायेन भामिनि ।
ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितमिच्छता ॥
भैषज्यकारणाद्व्याधौ खादन्पापैर्न लिप्यते ।
पितृशेषं तथैवाश्नन्मांसं नाशुभमृच्छति ॥
उमोवाच ।
गुरुपूजा कथं देव क्रियते धर्मचारिभिः ॥
महेश्वर उवाच ।
गुरुपूजां प्रवक्ष्यामि यथावत्तव शोभने ।
कृतज्ञानां परो धर्म इति वेदानुशासनम् ॥
तस्मात्स्वगुरवः पूज्यास्ते हि पूर्वोपकारिणः ।
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः ॥
उपाध्यायः पिता माता संपूज्यास्ते विशेषतः । ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा ।
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा ॥
मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी ।
मातामही च धात्री च सर्वास्ता मातरः स्मृताः ॥
उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद्गुरुः ।
ऋत्विग्गुरुः पिता चेति गुरवः सम्प्रकीर्तिताः ॥
ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वळशुरस्तथा ।
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः ॥
इत्येष कथितः साध्वि गुरूणां सर्वसङ्ग्रहः ।
अनुवृत्तिं च पूजां च तेषामपि निबोध मे ॥
आराध्या मातापितरावुपाध्यायस्तथैव च ।
कथंचिन्नावमन्तव्या नरेण हितमिच्छता ॥
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः ।
येन प्रीणाति चेन्माता प्रीताः स्युर्देवमातरः ॥
ये प्रीणात्युपाध्यायो ब्रह्मा तेनाभिपूजितः ।
अप्रीतेषु पुनस्तेषु नरो नरकमेति हि ॥
गुरूणां वैरनिर्बन्धो न कर्तव्यः कथञ्चन ।
नरः स्वगुरुमप्रीत्या मनसाऽपि न गच्छति ॥
न ब्रूयाद्विप्रियं तेषामनिष्टं न प्रवर्तयेत् ।
विगृह्य न वदेत्तेषां समीपे स्पर्धया क्वचित् ॥
यद्यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत् ।
वेदानुशासनसमं गुरुशासनमिष्यते ॥
कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत् ।
कैतवं परिहासांश्च मन्युकामाश्रयाः कथाः ॥
गुरूणां योऽनहंवादी करोत्याज्ञामतन्द्रितः ।
न तस्मात्सर्वमर्त्येषु विद्यते पुण्यकृत्तमः ॥
असूयामपवादं च गुरूणां परिवर्जयेत् ।
तेषां प्रियहितान्वेषी भूत्वा परिचरेत्सदा ॥
न तद्यज्ञफलं कुर्यात्तपो वाऽऽचरितं महत् ।
यत्कुर्यात्पुरुषस्येह गुरुपूजा सदा कृता ॥
अनुवृत्तेर्विना धर्मो नास्ति सर्वाश्रमेष्वपि ।
तस्मात्क्षमावृतः क्षान्तो गुरुवृत्तिं समाचरेत् ॥
स्वमर्थं स्वशरीरं च गुर्वर्थे संत्यजेद्बुधः ।
विवादं धनहेतोर्वा मोहाद्वा तैर्न रोचयेत् ॥
ब्रह्मचर्यमहिंसा च दानानि विविधानि च ।
गुरुभिः प्रतिषिद्धस्य सर्वमेतपार्थकम् ॥
उपाध्यायं पितरं मातरं च । येऽभिद्रुह्युर्मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं तेभ्यो नान्यः पापकृदस्ति लोके ॥
उमोवाच ।
उपवासविधिं तत्र तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
शरीरमलशान्त्यर्थमिन्द्रियोच्छोषणाय च ।
एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः ॥
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात् ।
बहूनामुपरोधं तु न कुर्यादात्मकारणात् ॥
जीवोपघातं च तथा स जीवन्धन्य इष्यते । तस्मात्पुण्यं लभेन्मर्त्यः स्वयमाहारकर्शनात् ।
तद्गृहस्थैर्यथाशक्ति कर्तव्यमिति निश्चयः ॥
उपवासार्दिते काये आपदर्शं पयो जलम् ।
भुञ्जन्न प्रतिघाती स्याद्ब्राह्म्णाननुमान्य च ॥
उमोवाच ।
ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥
ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः ।
केवलं ब्रह्मचर्येणि प्राप्यते परमं पदम् ॥
सङ्कल्पाद्दर्शनाच्चैव तद्युक्तवचनादपि ।
संस्पर्शादथ संयोगात्पञ्चधा रक्षितं व्रतम् ॥
व्रतवद्धारितं चैव ब्रह्मचर्यमकल्मषम् । नित्यं संरक्षितं तस्य नैष्ठिकानां विधियते ।
तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम् ॥
जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु ।
देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत् ॥
ब्रह्मचर्यव्रतफलं लभेद्दारव्रती सदा ।
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः ॥
उमोवाच ।
तीर्थचर्याव्रतं देव क्रियते धर्मकाङ्क्षिभि ।
कानि तीर्थानि लोकेषु तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये ।
पावनार्थं च शौचार्थं ब्रह्मणा निर्मितं पुरा ॥
यास्तु लोके महानद्यस्ताः सर्वास्तीर्थसंज्ञिताः । तासां प्राक्स्रोतसः श्रेष्ठाः सङ्गमश्च परस्परम् ।
तासां सागरसंयोगो वरिष्ठश्चेति विद्यते ॥
तासामुभयतः कूलं तत्रतत्र मनीषिभिः ।
देवैर्वा सेवितं देवि तत्तीर्थं परमं स्मृतम् ॥
समुद्रश्च महातीर्थं पावनं परमं शुभम् ।
तस्य कूलगतास्तीर्था महद्भिश्च समाप्लुताः ॥
स्रोतसकां पर्वताना च जोषितानां महर्षिभिः ।
अपि कूपं नटाकं वा सेवितुं मुनिभिः प्रिये ॥
तत्तु तीर्थमिति ज्ञेयं प्रभावात्तु तपस्विनाम् ।
तदा प्रभृति तीर्थत्वं लेभे लोकहिताय वै ॥
एवं तीर्थं भवेद्देवि तस्य स्नानविधिं शृणु ॥
जन्मना व्रतभूयिष्ठो गत्वा तीर्थानि काङ्क्षया ।
उपवासत्रयं कुर्यादेकं वा नियमान्वितः ॥
पुण्यमासेवते काले पौर्णमास्यां यथाविधि ।
बहिरेव शुचिर्भूत्वा तत्तीर्थं मन्मना विशेत् ॥
त्रिराप्लुत्य जलाभ्यासे दत्त्वा ब्राह्मणदक्षिणाम् ।
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम् ॥
एतद्विधानं सर्वेषां तीर्थंतीर्थमिति प्रिये ।
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम् ॥
आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत् ।
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् ॥
एवं पुण्येषु तीर्थेषु तीर्थस्नानं शुभं भवेत् ।
एतन्नैयमिकं सर्वं सुकृतं कथितं तव ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मिपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

श्रीः