अध्यायः 237

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति यज्ञप्रशंसनम् ॥ 1 ॥ तथा देवानां पूजादिफलकथनम् ॥ 2 ॥ तथा देवानां मनुष्यचिन्तितविज्ञानसामर्थ्यकथनम् ॥ 3 ॥

उमोवाच ।

भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते ।
लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
देवतानां तु पूजा या यज्ञेष्वेव समाहिता ।
यज्ञा वेदेष्वधीताश्च वेदा ब्राह्मणसंयुताः ॥
इदं तु सकलं दिव्यं दिवि वा भुवि वा प्रिये ।
यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया ॥
एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः ।
प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना ॥
ब्राह्मणेष्वेव तद्ब्रह्म नित्यं देवि समाहितम् ।
तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा ॥
यज्ञकर्मि कृतं सर्वं देवता अभितर्पयेत् ।
ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्थं प्रायशः स्मृताः ॥
अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः । सुशुद्धैर्यजमानैस्च ऋत्विग्भिश्च यथाविधिः ।
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥
तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् ।
तुष्टेषु सर्वदेवेषु यज्वा यज्ञफलं लभेत् ॥
देवाः सन्तोषिता यज्ञैर्लोकान्संवर्धयन्त्युत ।
उभयोर्लोकयोर्भूतिर्देवि यज्ञे प्रदृश्यते ॥
तस्माद्यज्वा दिवं गत्वा अमरैः सह मोदते ।
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः ॥
सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः ।
एषा यज्ञकृता पूजा लौकिकीमपरां शृणु ॥
देवसत्कारमुद्दिश्य क्रियते लौकिकोत्सवः ॥
देवगोष्ठेऽधिसंस्कृत्य चोत्सवं यः करोति वै । यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि ।
देवान्सन्तोषयित्वा स देवि धर्ममवाप्नुयात् ॥
गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः ।
बह्वीभिः स्तुतिभिश्चैव स्तुवद्भिः प्रयतैर्नरैः ॥
नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः ।
देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि ॥
तेषां भक्तिकृतेनैव सत्कारेणैव पूजिताः ।
तेनैव तोषं संयान्ति देवि देवास्त्रिविष्टपे ॥
मानुषैश्चोपकारैर्वा शुचिभिः सत्परायणैः ।
ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं लभेत् ॥
केवलैः स्तुतिभिर्देवि गन्धमाल्यसमाहितैः । प्रयतैः शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः ।
सन्तोषं यान्ति ते देवा भक्तैः सम्पूजितास्तथा ॥
देवान्सन्तोषयित्वैव देवि धर्ममवाप्नुयात् ॥
उमोवाच ।
त्रिविष्टपस्था वै भूमौ देवा मानुषचेष्टितम् ।
कथं ज्ञास्यन्ति विधिवत्तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं तेप्रवक्ष्यामि यथा तैर्विद्यते प्रिये ।
प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः ॥
आत्मानं परमं देवमिति विद्धि शुभेक्षणे ।
आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम् ॥
आत्मैव देवास्तद्विद्युरव्यग्रमनसा कृतम् ।
सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम् ॥
तस्माद्देवाऽभिसम्पूज्या ब्राह्मणानां तथैव च ।
यज्ञाश्च धर्मकार्याणि गुरुपूजा च शोभने ॥
शुद्धगात्रैर्व्रतयुतैस्तन्मयैस्तत्परायणैः ।
एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः ॥
एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते । अन्यथा मन आविश्य कृतं न फलति प्रिये ।
ऋतेऽपि तु मनो देवि अशुभं फलति ध्रुवम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

श्रीः