अध्यायः 238

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति श्राद्धविधानादिकथनम् ॥ 1 ॥

उमोवाच ।

पितृमेधः कथं देव तन्मे शंसितुमर्हसि ।
सर्वेषां पितरः पूज्याः सर्वसम्पत्प्रदायिनः ॥
महेश्व उवाच ।
पितृमेधं प्रवक्ष्यामि यथावत्तन्मना शृणु ।
देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् ॥
लोकेषु पितरः पूज्या देवतानां च देवताः ।
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः ॥
यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः ।
पितरश्च तथा लोके पितृमेधं शुभेक्षणे ॥
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती ।
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् ॥
तीर्थानि सरितः पुण्या विविक्तानि वनानि च ।
नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः ॥
माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ ।
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते ॥
अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च ।
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः ॥
पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा ।
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः ॥
एष कालो मया प्रोक्तः पितृमेधस्य पूजितः ।
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालः स च स्मृतः ॥
अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः ।
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत् ॥
वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान् ।
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे ॥
एतान्निमन्त्रयोद्विद्वान्पूर्वेद्युः प्रातरेव वा ।
तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा ॥
कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु ।
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु ॥
तिलानवकिरेत्तत्र नानावर्णान्समन्ततः ।
अशुद्धं पितृयज्ञश्च तिलैः शुध्यति शोभने ॥
नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम् ।
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः ॥
कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम् ।
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत् ॥
मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह ।
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते ॥
संवत्सरं च गव्येन हविषा पायसेन च ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये ।
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम् ॥
महाशकलिनो मस्याश्छागो वा सर्वलोहितः ।
कालशाकमितीत्येव तदानन्त्याय कल्पितम् ॥
सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत् ।
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः ॥
श्मश्रुकर्मशिरः स्नातान्समारोप्यासनं क्रमात् ।
सुगन्धमाल्याभरणैः स्नग्भिरेतान्विभूषयेत् ॥
अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत् ॥
ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम् । तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः ।
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा ॥
तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः ।
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम् ॥
एतेन विधिना दत्तं पितॄणामक्षयं भवेत् । ततो विप्रान्यथाशक्ति पूजयेन्नियतः शुचिः ।
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः ॥
यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः ।
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत् ॥
ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥
पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् ।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ॥
तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत् ।
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः ॥
एष प्रोक्तः समासेन पितृयज्ञः सनातनः ।
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात् ॥
अहन्यहनि वा कुर्यान्मासेमासेऽथवा पुनः ।
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः ॥
दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः ।
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान् ॥
श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधात्मकम् ।
अप्सरोगणसंघुष्टं विरजस्कमनन्तरम् ॥
श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः ।
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरः सदा ॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम् ।
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः ॥
उमोवाच ।
भगवन्देवदेवेश मृतास्ते भुवि जन्तवः ।
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः ॥
पितरः स्वस्ति ते तत्र कथं तिष्ठन्ति देववत् ।
पितॄणां कतमो देशः पिण्डानश्नन्ति वै कथम् ॥
अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत् ।
एवं मया संशयितं भगवन्वक्तुमर्हसि ॥
नारद उवाच ।
एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम् ।
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम् ॥
महेश्वर उवाच ।
स्थाने संशयितं देवि शृणु कल्याणि तत्वतः ।
गुह्यानां परमं गुह्यं हितानां परमं हितम् ॥
यथा देवगणा देवि तथा पितृगणाः प्रिये ।
दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः ॥
प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह ।
तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः ॥
उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः ।
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः ॥
द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् । तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन् ।
प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते ।
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते ॥
सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च ।
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान् ॥
अनिष्टा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत् ।
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत् ॥
हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः ।
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते ॥
कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः ।
इति ते कथितं देवि देवगुह्यं सनातनम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

श्रीः