अध्यायः 242

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति प्राणिनां मरणस्य स्वाभाविकत्वयत्नसाध्यत्वभेदेन द्वैविध्यकथनपूर्वकं द्वितीयस्य योगादिना शरीरत्यागादिभेदेन चातुर्विध्यकथनेन तस्य महाफलहेतुत्वकथनम् ॥ 1 ॥ कामक्रोधादिना शरीरत्यागस्य नकरभोगहेतुत्वकथनम् ॥ 2 ॥

उमोवाच ।

भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः ।
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा ॥
तयोः स्वभावं नापायं यत्नतः करणोद्भवम् ।
एतयोरुभयोर्देवि विधानं शृणु शोभने ॥
कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् ।
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया ॥
तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम् । महाप्रस्थानगमनं तथा प्रायोपवेशनम् ।
जलावगाहनं चैव अग्निचित्यां प्रवेशनम् ॥
एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् ।
एतेषां क्रमयोगेन विधानं शृणु शोभने ॥
स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः ।
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा ॥
दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च ।
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा ॥
दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः ।
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् ॥
अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना ।
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरसरम् ॥
परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम् ।
महाप्रस्तानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम् ॥
भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम् । चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत् ।
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते ॥
प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः ।
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत् ॥
अप्राणं तु शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः । पुण्यं परित्यजेत्प्राणानेष धर्मः सनातनः ।
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते ॥
अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे ।
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा ॥
दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम् । भूत्वा शुचिर्व्यवसितः प्रविशेदग्निसंस्तरम् ।
सोपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम् ॥
जलावगाहनं चेच्छेत्तेनैव विधिना शुभे ।
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन् ॥
सोपि पुण्यतमाँल्लोकान्निःसङ्गात्प्रतिपद्यते ।
ततः कल्यशरीरस्य संत्यागं शृणु तत्वतः ॥
रक्षार्थं क्षत्रियः श्रेष्ठः प्रजापालनकारणात् ।
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् ॥
गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते ।
स्वराज्यरक्षणार्तं वा कुजनैः पीडिताः प्रजाः ॥
मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि । सुसन्नद्धो व्यवसितः सम्प्रविश्यापराङ्मुखः ।
एवं राजा मृतः सद्यः स्वर्गलोके महीयते ॥
तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः ।
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते ॥
कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया ।
स्वाम्यर्थं संत्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति ॥
स्पृहणीयः सुरगणैस्तत्र नास्ति विचारणा ।
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम् ॥
सोपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया ।
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः ॥
कामक्रोधाद्भयाद्वाऽपि यदि चेत्संत्यजेत्तनुम् ।
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात् ॥
स्वभावं मरणं नाम न तु चात्मेच्छया भवेत् ।
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि ॥
तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते ।
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः ॥
निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम् ।
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि ॥
श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम् ।
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम् ॥
दिवा च शुक्लपक्षश्च उत्तरायणमेव च ।
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् ॥
औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम् । आप्यायनं मृतानां तत्परलोके भवेच्छुभम् ।
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

श्रीः