अध्यायः 243

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति नानाधर्मामामपि प्रत्येकं साफल्यकथनेन तेषु मोक्षधर्मस्यैव श्रैष्ठ्यप्रतिपादनम् ॥ 1 ॥ तथा ज्ञानस्य मोक्षसाधनत्वकथनपूर्वकं तत्प्राप्त्युपायकथनम् ॥ 2 ॥

उमोवाच ।

देवदेव नमस्तेऽस्तु कालसूदन शङ्कर ।
लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः ॥
विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवमव्ययम् ।
श्रुतुमिच्छाम्यहं सर्वमत्र मुह्यति मे मनः ॥
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।
वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम् ॥
राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च ।
ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम् ॥
मातरं पितरं केचित्सेवमाना दिवं गताः ।
अहिंसया परः स्वर्गे सत्येन च महीयते ॥
आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः ।
केचिदुञ्छवृत्ते सिद्धाः स्वर्गमार्गं समाश्रिताः ॥
आर्जवेनापरे युक्ता महतां पूजते रताः ।
ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः ॥
एवं बहुविधैर्लोके धर्मद्वारैः सुसंवृतैः ।
ममापि मतिराविद्धा मेघलेखेव वायुना ॥
एतस्मिन्संशयस्थाने संशयच्छेदकारि यत् ।
वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम् ॥
नारद उवाच ।
एवं पृष्टः स्वया देव्या महादेवः पिनाकधृक् ।
प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंश्रितम् ॥
महेश्वर उवाच ।
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि निश्चयम् ।
एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये ॥
सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफलाः क्रियाः ॥
यस्मिन्यस्मिंश्च विषये योयो याति विनिश्चयम् ।
तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते ॥
शृणु देवि समासेन मोक्षद्वारसमनुत्तमम् ।
एतद्धि सर्वधर्माणां विशिष्टं शुभमव्ययम् ॥
नास्ति मोक्षात्परं देवि मोक्ष एव परा गतिः ।
सुखमात्यन्तिकं श्रेष्ठमनिवृत्तं च तद्विदुः ॥
नात्र देवि जरा मृत्युः शोको वा दुःखमेव वा ।
अनुत्तममचिन्त्यं च तद्देवि परमं सुखम् ॥
ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः ।
ऋषिभिर्देवसङ्घैश्च प्रोच्यते परमं पदम् ॥
नित्यमक्षरमक्षोभ्यमजेयं शाश्वतं शिवम् ।
विशन्ति तत्पदं प्राज्ञाः स्पृहणीयं सुरोत्तमैः ॥
दुःखादिश्च दुरन्तश्च संसारोयं प्रकीर्तितः ।
शोकव्याधिजरादोषैर्मरणेन च संयुतः ॥
यथा ज्योतिर्गणा व्योम्नि विवर्तन्ते पुनःपुनः ।
तस्य मोक्षस्य मार्गोऽयं श्रुयतां शुभलक्षणे ॥
ब्रह्मादिस्थावरान्तश्च संसारो यः प्रकीर्तितः ।
संसारे प्राणिनः सर्वे निवर्तन्ते यथा पुनः ॥
तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते ।
अध्यात्मतत्वविज्ञानं ज्ञानमित्यभिधीयते ॥
ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा ।
यथावत्सम्प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥
ब्राह्मणः क्षत्रियो वाऽपि भूत्वा पूर्वं गृहे स्थितः ।
आनृण्यं सर्वतः प्राप्य ततस्तान्संत्यजेद्गृहान् ॥
ततः संत्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत् ॥
वने गुरुं समाज्ञाय दीक्षितो विधिपूर्वकम् ।
दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् ॥
गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमनिन्दितः ।
द्विविधं च पुनर्मोक्षं साङ्ख्ययोगमिति स्मृतिः ॥
पञ्चविंशतिविज्ञानं साङ्ख्यमित्यभिधीयते । ऐश्वर्यं देवसारूप्यं योगशास्त्रस्य निर्णयः ।
तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः ॥
नाकालो नाप्यकाषायी नाप्यसंवत्सरोषितः । नासाङ्ख्ययोगो नाश्राद्धं गुरुणा स्नेहपूर्वकम् ।
समः शीतोष्णहर्षादीन्विषहेत स वै मुनिः ॥
अमृष्यः क्षुत्पिपासाभ्यामुचितेभ्यो निवर्तयेत् ।
त्यजेत्सङ्कल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत् ॥
कुण्डिकाचमसं शिक्यं छत्रं यष्टिमुपानहौ ।
चेलमित्येव नैतेषु स्थापयेत्साम्यमात्मनः ॥
गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत् ।
नैवाविज्ञाप्य भर्तारमावश्यकमपि व्रजेत् ॥
द्विरह्नि स्नानशाटेन संध्ययोरभिषेचनम् ।
एककालाशनं चास् विहितं यतिभिः पुरा ॥
भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि ।
कारणे चापि सम्प्राप्ते न ज्ञाप्येत कदाचन ॥
ब्रह्मिचर्यं वने वासं शौचमिन्द्रियसंयमः ।
दया च सर्वभूतेषु तस्य धर्मः सनातनः ॥
विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः ।
आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्र्हम सम्पद्यते तदा ॥
अनिष्ठुरोऽनहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।
वीतशोकभयाबाधं पदं प्राप्नोत्यनुत्तमम् ॥
तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः ।
समः शत्रौ च मित्रे च निर्वाणमधिगच्छति ॥
एवं युक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः ।
ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

श्रीः