अध्यायः 245

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति साङ्ख्यज्ञानप्रतिपादनपूर्वकमव्यक्तादिचतुर्विंशतितत्वानामुत्पत्तिप्रकारादिकथनम् ॥ 1 ॥ तथा सत्त्वादिगुणानां कार्यविशेषनिरूपणम् ॥ 2 ॥ तथा भूतपञ्चकादिगुणप्रतिपादनम् ॥ 3 ॥

महेश्वर उवाच ।

साङ्ख्यज्ञानं प्रवक्ष्यामि यथावत्ते शुचिस्मिते ।
यज्ज्ञात्वा न पुनर्मर्त्यः संसारेषु प्रवर्तते ॥
ज्ञानेनैव विमुक्तास्ते साङ्ख्याः संन्यासकोविदाः । शरीरं तु तपो घोरं साङ्ख्याः प्राहुर्निरर्थकम् ।
पञ्चविंशतिकं ज्ञानं तेषां ज्ञानमिति स्मृतम् ।
मूलप्रकृतिरव्यक्तमव्यक्ताज्जायते महान् ॥
महतोऽभूदहङ्कारस्तस्मात्तन्मात्रपञ्चकम् ।
इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्युत ॥
तेभ्यो भूतानि पञ्चास्य शरीरं यैः प्रवर्तते । इति क्षेत्रस्य संक्षेपं चतुर्विंशतिरिष्यते ।
पञ्चविंशतित्याहुः पुरुषेणेह सङ्ख्यया ॥
सत्वं रजस्तमश्चेति गुणाः प्रकृतिसम्भवाः ।
तैः सृजत्यखिलं लोकं प्रकृतिः स्वात्मकैर्गुणैः ॥
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
विकाराः प्रकृतेश्चैते वेदितव्या मनीषिभिः ॥
लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् ।
विस्तरेणैव वक्ष्यामि तस्य व्याख्यामहं शृणु ॥
नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् ।
अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम् ॥
अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् ।
अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥
तत्सूक्ष्मत्वादनिर्देश्यं तत्सदित्यभिधीयते ।
तन्मूलं च जगत्सर्वं तन्मूला सृष्टिरिष्यते ॥
सत्वादयः प्रकृतिजा गुणास्तान्प्रब्रवीम्यहम् ॥
सुखं तुष्टिः प्रकाशश्च त्रयस्ते सात्विका गुणाः । रागद्वेषौ सुखं दुःखं स्तम्भश्च रजसो गुणाः ।
अप्रकाशो भयं मोहस्तन्द्री च तमसो गुणाः ॥
श्रद्धा प्रहर्षो विज्ञानमसंमोहो दया धृतिः ।
सत्वे प्रवृत्ते वर्धन्ते विपरीते विपर्ययः ॥
कामक्रोधौ मनस्तापो लोभो मोहस्तथामृषा ।
प्रवृद्धे परिवर्धन्ते रजस्येतानि सर्वशः ॥
विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा ।
तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुकम् ॥
एवमन्योन्यमेतानि वर्धन्ते च पुनःपुनः ।
हीयन्ते च तथा नित्यमभिभूतानि भूरिशः ॥
तत्र यत्प्रीतिसंयुक्तं कायेन मनसाऽपि वा ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥
यदा सन्तापसंयुक्तं चित्तक्षोभकरं भवेत् ।
वर्तते रज इत्येव तदा तदभिचिन्तयेत् ॥
यदा सम्मोहसंयुक्तं यद्विषादकरं भवेत् ।
अप्रतार्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥
समासात्सात्विको धर्मः समासाद्राजसं धनम् ।
समासात्तामसः कामस्त्रिवर्गे त्रिगुणाः क्रमात् ॥
ब्रह्मादिदेवसृष्टिर्या सात्विकीति प्रकीर्त्यते ।
राजसी मानवी सृष्टिस्तिर्यग्योनिस्तु तामिसी ॥
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृतच्तिस्था अधो गच्छन्ति तामसाः ॥
देवमानुषतिर्यक्षु यद्भूतं सचराचरम् ।
आदिप्रभृति संयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः ॥
अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः ।
विज्ञानं च विवेकश्च महतो लक्षणं भवेत् ॥
महान्बुद्धिर्मतिः प्रज्ञा नामानि महतो विदुः ।
अहङ्कारः स विज्ञेयो लक्षणेन समासतः ॥
अहङ्कारेण भूतानां सर्गो नानाविधो भवेत् ।
अहङ्कारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥
खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् ।
स्पर्शवत्प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः ॥
रूपं पाकोक्षिणी ज्योतिश्चत्वारस्तेजसो गुणाः ।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥
गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः ।
इति सर्वगुणा देवि विख्याताः पाञ्चभौतिकाः ॥
गुणान्पूर्वस्यपूर्वस्य प्राप्नुवन्त्युत्तराणि तु ।
तस्मान्नैकगुणाश्चेह दृश्यन्ते बूतसृष्टयः ॥
उपलभ्याप्सु ये गन्धं केचिद्ब्रूयुरनैपुणाः ।
अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे ॥
तद्गन्धत्वमपां नास्ति पृथिव्या एव तद्गुणः । भूमिर्गन्धे रसे स्नेहो ज्योतिश्चक्षुषि संस्थितम् ।
प्राणापानाश्रयोः वायुः खेष्वाकाशः शरीरिणां
केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च ।
पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् ॥
यत्किञ्चिदपि कायेऽस्मिन्धातुदोषमलाश्रितम् ।
तत्सर्वं भौतिकं विद्धि देहैरेवास्य स्वामिकम् ॥
बुद्धीन्द्रियाणि कर्णत्वक्चक्षुर्जिह्वाऽथ नासिका ।
कर्मेन्द्रियाणि वाक्पाणिपादौ मेढ्रं गुदस्तथा ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
बुद्धीन्द्रियार्थाञ्जानीयाद्भूतेभ्यस्त्वभिनिःसृतान् ॥
वाक्यं क्रिया गतिः प्रीतिरुत्सर्गश्चेति पञ्चधा ।
कर्मेन्द्रियार्थाञ्जानीयात्ते च भूतोद्भवा मताः ॥
इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते ।
प्रार्थनालक्षणं तच्च इन्द्रियं तु मनः स्मृतम् ॥
नियुङ्क्ते च सदा तानि भूतानि मनसा सह ।
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना धृतिः ।
भूताभूतविकारश्च शरीरमिति संस्मृतम् ॥
शरीराच्च परो देही शरीरं च व्यपाश्रितः ।
शरीरिणः शरीरस्य सोऽन्तरं वेत्ति वै मुनिः ॥
रसः स्पर्शस्च गन्धश्च रूपं शब्दविवर्जितम् । अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् ।
अव्यक्तं सर्वदेहेषु मर्त्येष्वमरमाश्रितम् ।
यः पश्येत्परमात्मानं बन्धनैः स विमुच्यते ॥
नैवायं चक्षुषां ग्राह्यो नापरैरिन्द्रियैरपि ।
मनसैव प्रदीप्तेन महानात्मा प्रदृश्यते ॥
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
वसत्येको महावीर्यो नानाभावसमन्वितः ॥
नैव चोर्ध्वं न तिर्यक्च नाधस्तान्न कदाचन ।
इन्द्रियैरिव बुद्ध्या वा न दृश्येत कदाचन ॥
नवद्वारं पुरं गत्वा स्थितोऽसौ नियतो वशी ।
ईश्वरः सर्वलोकेषु स्थावरस्य चरस्य च ॥
तमेवाहुरणुभ्योऽणुं तु महद्भ्यो महत्तरम् ।
बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतम् ॥
क्षेत्रज्ञमेकतः कृत्वा सर्वं क्षेत्रमथैकतः ।
एवं स विमृशेज्ज्ञानी संयतः सततं हृदि ॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
अकर्ता लेपको नित्यो मध्यस्थः सर्वकर्मणाम् ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
अजय्योऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः ।
देही तेजोमयो देहि तिष्ठतीत्यपरे विदुः ॥
ज्ञानमूष्मा च वायुश्च शरीरे जीवसंज्ञकः ।
इत्येते निश्चिता बुद्ध्या तत्रैते बुद्धिचिन्तकाः ॥
अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम् ।
ब्रुवते केचिदत्रैव तिलतैलवदास्थितम् ॥
अपरे नास्तिका मूढा हीनत्वात्स्थूललक्षणैः ।
नास्त्यात्मेति विनिश्चित्याप्रज्ञास्ते निरयालयाः ॥
एवं नानाविधा नैव विमृशन्ति महेश्वरम् ॥
उमोवाच ।
भगवन्ब्राह्मणो लोके नित्यमक्षरमव्ययम् ।
अस्त्यात्मा सर्वभूतेषु हेतुस्तत्र सुदुर्गमः ॥
महेश्वर उवाच ।
ऋषिभिश्चापि देवैश्च व्यक्तमेष न दृश्यते ।
दृष्ट्वा तु तं महात्मानं पुनस्तु न निवर्तते ॥
तस्मात्तद्दर्शनादेव विन्दते परमां गतिम् । इति ते कथितो देवि साङ्ख्यधर्मः सनातनः ।
कपिलादिभिराचार्यैः सेवितः परमर्षिभिः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

7-245-59 अस्त्यात्मा सर्वदेहेष्विति ङ. पाठः ॥

श्रीः