अध्यायः 252

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण हिमवद्गिरौ नारदोदितकृष्णमहिमानुवादः ॥ 1 ॥ तथा पार्थकृष्णयोर्नरनारायणात्मकत्वकथनपूर्वकं कृष्णमहिमप्रशंसनम् ॥ 2 ॥

नारद उवाच ।

अथ व्योम्नि महाञ्शब्दः सविद्युत्स्तनयित्नुमान् ।
मेघैश्च गगनं नीलं संरुद्धमभवद्धनैः ॥
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः ।
तमश्वैवाभवद्धोरं दिशश्च न चकाशिरे ॥
ततो देवगिरौ तस्मिन्रम्ये पुण्ये सनातने ।
न शर्वं भूतसङ्घं वा ददृशुर्मनयस्तदा ॥
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत ।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् ॥
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन् ।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम् ॥
स भवान्पुरुषव्याघ्र ब्रह्मभूतः सनातनः ।
यदर्थमनुशिष्टा स्मो गिरिपृष्ठे महात्मना ॥
द्वितीयं त्वद्भुतमिदं त्वत्तेजःकृतमद्य वै ।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता ॥
एतत्ते देवदेवस्य माहात्म्यं कथितं प्रभो ।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन ॥
इत्युक्ताः स तदा कृष्णस्तपोवननिवासिभिः ।
मानयामास तान्सर्वानृषीन्देवकिनन्दनः ॥
अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्ममब्रुवन् ।
पुनःपुनर्दर्शयास्मान्सदैव मधुसूदन ॥
न हि नः सा रति स्वर्गे या च त्वद्दर्शने विभो ।
तदृतं च महाबाहो यदाह भगवान्भवः ॥
एतत्ते सर्वमाख्यातं रहस्यमरिकर्शन ।
त्वमेव ह्यर्ततत्त्वज्ञः पृष्टोऽस्मान्पृच्छसे यदा ॥
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम् ।
न च तेऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥
जन्म चैव प्रसूतिश्च यच्चान्यत्कारणं विभो ।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे ॥
ततः स्थिते त्वयि विभो लघुत्वात्प्रलपामहे ।
न हि किञ्चित्तदाश्चर्यं यन्न वेत्ति भवानिह ॥
दिवि वा भुवि वा देव सर्वं हि विदितं तव ।
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि ॥
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति ।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः ॥
भीष्म उवाच ।
ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम् ।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः ॥
सोयं नारायणः श्रीमन्दीप्त्या परमया युतः ।
व्रतं यथावत्तच्चीर्त्वा द्वारकां पुनरागमत् ॥
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः ।
रुक्मिण्यां सम्मतो जज्ञे शूरो वंशधरः प्रभो ॥
स कामः सर्वभूतानां सर्वभावगतो नृप ।
असुराणां सुराणां च चरत्यन्तर्गतः सदा ॥
सोयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः ।
संश्रितः पाण्डवान्प्रेम्णा भवन्तश्चैनमाश्रिताः ॥
कीर्तिर्लक्ष्मीर्धृतिश्चैवक स्वर्गमार्गस्तथैव च ।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः ॥
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा ।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः ॥
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः ।
अयं जातो महातेजाः सुराणामर्थसिद्धये ॥
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः ।
तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथाऽतुला ॥
तवेयं पृथिवी देवी कृत्स्ना नारायणाश्रयात् ।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः ॥
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान्नृपान् ।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै ॥
दुर्योधनश्च शोच्योसौ सपुत्रभ्रातृबान्धवः ।
कृतवान्योऽबुधः क्रोधाद्धरिगाण्डीविविग्रहम् ॥
दैतेया दानवेन्द्राश्च महाकाया महाबलाः ।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव ॥
प्रतियोद्धुं न शक्यो हि मानुषैरेव संयुगे ।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः ॥
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः ।
तेजसा हतवान्सर्वं सुयोधनवलं नृप ॥
यत्तु गोवृषभाङ्केन मुनिभ्यः समुदाहृतम् ।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु ॥
यावत्तस्य भवेत्पुष्टिस्तेजो जीप्तिः पराक्रमः ।
प्रभावः सन्नतिर्जन्म कृष्णे तत्त्रिगुणं विभो ॥
कः शक्नोत्यन्यथा कर्तुं तद्यदि स्यात्तथा शृणु ।
यत्रः कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा ॥
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लबाः ।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम् ॥
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम् ।
राजवृत्तं न लभते प्रतिज्ञापालने रतः ॥
अत्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे ।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम ॥
कालेनायं जनः सर्वो निहतो रणमूर्धनि ।
वयं च कालेन हताः कालो हि परमेश्वरः ॥
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि ।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः ॥
तस्मात्कुन्तीसुत ज्ञातीन्नेह शोचितुमर्हसि ।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन ॥
माधवस्यास्य महात्म्यं श्रुतं यत्कथितं मया ।
तदेव तावत्पर्याप्तं सज्जनस्य निदर्शनम् ॥
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः ।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै ॥
प्रभावश्चर्षिपूगस्य कथितः सुमहान्मया ।
महेश्वरस्य संवादं शैलपुत्र्याश्च भारत ॥
धारयिष्यति यश्चैनं महापुरुषसम्भवम् ।
शृणुयात्कथयेद्वा यः स श्रेयो लभते परम् ॥
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः ।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः ॥
न्याय्यं श्रेयोभिकामेन प्रतिपत्तुं जनार्दनः ।
एष एवाक्षयो विप्रैः स्तुतो राजञ्जनार्दनः ॥
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः ।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम् ॥
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च ।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति ॥
धर्मोणापि सदा राजन्प्रजा रक्षितुमर्हसि ।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते ॥
य एष कथितो राजन्मया सज्जनसन्निधौ ।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः ॥
श्रुत्वा वा श्रोतुकामो वाऽप्यर्चयेद्वृषभध्वजम् ।
विशुद्धेनेह भावेन य इच्छेद्भूतिमात्मनः ॥
एष तस्यानवद्यस्य नारदस्य महात्मनः ।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव ॥
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो ।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् ॥
दशवर्शसहस्राणि बदर्यामेष शाश्वतः ।
तपश्चचार विपुलं सह गाण्डीवधन्वना ॥
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव ॥
बाल एव महाबाहुश्चकार कदनं महत् ।
कंसस्य पुण्डरीकाक्षो ज्ञातित्रामार्थकारणात् ॥
कर्मणामस्य कौन्तेय नान्तं सङ्ख्यातुमुत्सहे ।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर ॥
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम् ।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः ॥
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम् ।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा ॥
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा ।
दुःशासनवतुर्थानां कुरवो निधनं गताः ॥
वैशम्पायन उवाच ।
एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे ।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् ॥
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः ।
सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयऽभवन् ॥
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा ।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च ॥
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह ।
श्रुतवान्सुमहाश्चर्यं पुण्यं भीष्मानुशासनम् ॥
वैशम्पायन उवाच ।
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम् ।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥

श्रीः