अध्यायः 256

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणमहिमप्रशंसनपूर्वकं तेषां पूज्यत्वादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

के पूज्याः के नमस्कार्या कथं वर्तेत केषु च ।
किमाचारः कीदृशेषु पितामह न रिष्यते ॥
भीष्म उवाच ।
ब्राह्मणानां परिभवः सादयेदपि देवताः ।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते ॥
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् ।
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ॥
धनत्यागाभिरामास्चि वाक्सङ्गमधुराश्च ये ॥
रमणीयाश्च भूतानां नियमेन धृतव्रताः ।
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः ॥
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ।
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः ।
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः ॥
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः ।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥
धुरि ये नावसीदन्ति विषमे सद्धया इव ।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥
भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात् ।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः ।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः ।
परावरविशेषज्ञा गन्तारः परमां गतिम् ॥
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः ।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥
चन्दने मलपङ्के च भोजनेऽभोजने समाः ।
समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि ।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः ॥
अपेयः सागरो येषामपि सापान्महात्मनाम् ।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥
देवानामपि ये देवाः कारणं कारणस्य च ।
प्रमामस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः ॥
तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः ।
तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् ।
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः ॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते ॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

7-256-1 किमाचारः कथं धर्मः कीदृशेषु न रिष्यते इति क.पाठः ॥ 7-256-16 अदैवं दैवतं कुर्युर्भस्म कुर्युश्च ते जगत् इति क.थ.पाठः ॥

श्रीः