अध्यायः 258

अथ दानधर्मपर्व ॥ 1 ॥

कार्तवीर्यार्जुनंप्रति वायुना ब्राह्म्णमहिमप्रशंसके स्ववाक्ये प्रामाण्यनश्चयाय दृष्टान्ततयाऽङ्गिरः प्रभृतिब्राह्मणचरित्रविशेषप्रतिपादनम् ॥ 1 ॥

वायुरुवाच ।

शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह ।
नाशं जगाम तां विप्रो व्यस्तम्ययत कश्यपः ॥
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा ।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥
स ताः पिबञ्शीरमिव नातृप्यत महातपाः ।
अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात् ।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥
अथ शप्तश्च भगवान्गौतमेन पुरंदरः ।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा ।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः ॥
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः ।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम् ।
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना ॥
सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप ।
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः ॥
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् ।
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम् ॥
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा ।
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम् ॥
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जन ।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् ॥
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम् ।
कर्तारं जवलोकस्य कस्माज्जानन्विमुह्यसे ॥
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः ।
येनेदं विपुलं विश्वं जनितं स्थावरं चरम् ॥
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः ।
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम् ॥
दृष्टवानेतदेवं हि कथं जायेदजो हि सः ।
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः ॥
तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत् ।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः ।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥

7-258-4 रसकामः विबन्क्षीरं नाकुप्यत महातपाः इति थ.पाठः ॥ 7-258-5 अहं वायुः ॥ 7-258-8 कविः अग्निः ॥ 7-258-9 महतः सगरपुत्रान् आसन्त उपासन्त । सुवर्णधारिणा शोभनो ब्राह्मणवर्णस्तस्य धारिणा धर्त्रा द्विजातिना कपिलेन मरुतश्चूर्णितान्पश्य । यौर्हि पूर्णो महोदधिरिति क.थ.पाठः ॥ 7-258-13 अग्निं ब्राह्मणमित्यन्वयः ॥ 7-258-14 अनुभूतं प्रतिभूतम् । अनुपालकं पोषकम् ॥ 7-258-16 ननु ब्रह्माण्डे जातत्वात्कथमण्डमजनयदित्यत्राह अण्डेति ॥ 7-258-17 अण्डजत्ववचनं त्वस्य प्रकारान्तरेणेत्याह स्मृतमिति । द्रष्टव्यं नैतदेवं हीति झ.पाठः ॥

श्रीः