अध्यायः 264

अथ दानधर्मपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति ब्राह्मणानां महत्तरत्वे दृष्टान्ततया स्वेन प्रद्युम्नं प्रत्युक्तदुर्वासश्चरित्रप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन ।
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥
वासुदेव उवाच ।
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ ।
यथातत्त्वेन वदतो गुणान्वै कुरुसत्तम ॥
द्वारवत्यां समासीनं पुरा मां कुरुनन्दन ।
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ॥
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ।
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च ॥
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद ।
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे ॥
इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम् ।
प्रत्यब्रवं महाराज यत्तच्छृणु समाहितः ॥
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥
अस्मिँल्लोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक ।
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा ॥
ब्राह्मणप्रभवं सौख्यमायुः कीर्तिर्यशो बलम् ।
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः ॥
त्रिवर्गे चापवर्गे च यशःश्रीरोगशान्तिषु ।
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः ॥
तान्कथं वै नाद्रियेयमीश्वरोस्मीति पुत्रक ।
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥
ब्राह्मणा हि महद्भूतमस्मिँल्लोके परत्र च ।
भस्म कुर्यर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥
हन्युस्तेऽपि सृजेयुस्च लोकान्लोकेश्वरांस्तथा ।
कथं तेषु न वर्तेरन्सम्यग्ज्ञानात्सुतेजसः ॥
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः ।
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान् ॥
दीर्घभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ।
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः ॥
इमां गाथां गायमानश्चत्वरेषु सभासु च ।
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे ॥
रोषणः सर्वभूतानां सूक्ष्मेऽप्यपकृते कृते ।
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ॥
यो मां कश्चिद्वासयीत न स मां कोपयेदिति ।
यस्मान्नाद्रियते कश्चित्ततोऽहं समवासयम् ॥
स सम्भुङ्क्ते सहस्राणां बहूनामन्नमेकदा ।
एकदा सोल्पकं भुङ्क्ते नचैवैति पुनर्गृहान् ॥
अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति ।
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥
अथ स्वावसथं गत्वा सशय्यास्तरणानि च ।
अदहत्स महातेजास्ततश्चाभ्यपतत्स्वयम् ॥
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः ।
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः ।
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा ॥
भवन्तु सत्कृतानीह पूर्वमेव प्रयोचितः ।
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ॥
तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत् ।
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥
अविमृश्यैव च ततः कृतवानस्मि तत्तथा ।
तेनोच्छिष्टेन गात्राणि शरीरं च समालिपम् ॥
स ददर्श तदाऽभ्याशे मातरं ते शुभाननाम् ।
तामपि स्मयमानां स पायसेनाभ्यलेपयत् ॥
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् ।
तमारुद्य रथं चैव निर्ययौ स गृहान्मम ॥
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् ।
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥
न च मे स्तोकमप्यासीद्दुः खमीर्ष्याकृतं तदा ।
तथा स राजमार्गेणि महता निर्ययौ बहिः ॥
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः ।
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन ।
को ह्येनां रथमास्थाय जीवेदन्य पुमानिह ॥
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः ।
ब्रह्माहिविषदिग्धस्य नास्ति कश्चिच्चिकित्सकः ॥
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि ।
अमर्षयंस्तथा श्रीमान्स्मितपूर्वमचोदयम् ॥
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः ।
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः ॥
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् ।
तथैव पायसादिग्धः प्रसीद भगवन्निति ॥
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह ।
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत ।
प्रीतोस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ॥
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधाम् ॥
यावदेव मनुष्याणामन्ने भावो भविष्यति ।
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति । त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ।
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् ।
सर्वं तथैव द्रष्टासि विशिष्टं जनार्दन ॥
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन ।
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत ॥
न तु पादतले लिप्ते तस्मात्ते मृत्युरत्र वै ।
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा ॥
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम् ।
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः ।
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि ।
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥
षोडशानां सहस्राणां बधूनां केशवस्य ह ।
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि ॥
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् ।
प्रस्थितः सुमहातेजा दुर्वासाऽग्निरिव ज्वलन् ॥
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ।
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥
तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम् ।
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ।
ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् ।
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् ।
अपूजयं च मनसा रौक्मिणेय सदा द्विजान् ॥
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ ।
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो ।
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम् ।
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥

7-264-8 सौम्यं कल्याणम् ॥ 7-264-9 ब्राह्मणप्रतिपूजायामायुरिति झ. पाठः ॥ 7-264-14 दीर्घश्मश्रुनखादिमानिति थ.ध.पाठः ॥ 7-264-23 जन इति इति शेषपूर्त्या सम्बन्धः ॥ 7-264-44 लिप्ते कस्मात्ते पुत्रकाद्य वै इति झ.पाठः ॥

श्रीः