अध्यायः 265

अथ दानधर्मपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति दक्षाध्वरविध्वंसनत्रिपुरदहनादिरूपरुद्रचरित्रपरिकीर्तनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

दुर्वाससः प्रसादात्ते शंकरांशस्य माघव ।
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥
महाभाग्यं च यत्तस्य नामानि च महात्मनः ।
तत्त्वमो ज्ञातुमिच्छामि सर्वं मतिमतांवर ॥
वासुदेव उवाच ।
हन्ति ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने ।
यदवाप्तं मया राजञ्श्रेयो यच्चार्जितं यशः ॥
प्रयतः प्रातरुत्थाय यस्त्वधीयेद्विशाम्पते ।
प्राञ्जलिः शतरुद्रीयं नास्य किञ्चनि दुर्लभम् ॥
`शिवः सर्वकतो रुद्रः स्रष्टा यस्त्वं शृणुष्व मे ।' प्रजापतिस्तमसृजत्तमसोऽन्ते महातपाः ।
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥
नास्ति किञ्चित्परं भूतं महादेवाद्विशाम्पते ।
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपनेते च पतन्ति च ॥
घोरं च निनदं तस्य पर्जन्यनिनदोपम् । श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे ।
यं चाक्ष्णा घोररूपेण पश्येद्दग्धः पतेदधः ॥
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ।
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ ।
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ॥
धनुषा वाणमुत्सृज्य सुघोरं विननाद च ॥
ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः ।
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे ॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरः ।
व्यद्रवग्निरयश्चापि द्यौः पफाल च सर्वशः ॥
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे ।
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥
भृशं भीतास्ततः शान्तिं चत्रुः स्वस्त्ययनानि च ।
ऋषयः सर्वभूतानामात्मनश्च हितैषिमः ॥
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः ।
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥
पूषणं चाभिदुद्राव घोरेण वपुषाऽन्वितः ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् ।
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् ॥
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः ।
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥
जेषुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा ।
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् ।
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत् ।
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत् ॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णमपि चापरम् ॥
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि ।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥
तत ऊचुर्महात्मानो देवाः सर्वे समागताः ।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ।
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम् ॥
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ।
ओङ्कारं च धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमां ॥
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः ।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥
शरेणादित्यवर्णेन कालाग्निसमतेजसा ।
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥
असूयतश्च शक्रस्य वज्रेणि प्रहरिष्यतः ।
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥
न संयुयुधिरे चैव देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
बभूव स तदा बालः प्रययौ तु यथापुरम् ॥
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् ।
द्वारवत्यां मम गृहे चिरं कालमुपावसन् ॥
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि ।
तानुदारतया चाहं चक्षमे चातिदुःसहान् ॥
स वै रुद्रः स च शिवः सोग्निः सर्वः स सर्वजित् ।
स चैवेन्द्रश्च वायुश्च सोऽस्विनौ स च विद्युतः ॥
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ।
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च ॥
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ।
सधाता स विधाता च विश्वकर्मा स सर्ववित् ॥
नक्षत्राणि ग्रहाश्चैव दिशोऽथ प्रदिशस्तथा ।
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः ॥
एकधा च द्विधा चैव बहुधा च स एव हि ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥
ईदृशः स महादेवो भूयश्च भगवानतः ।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्ट्यदिकद्विशततमोऽध्यायः ॥ 265 ॥

श्रीः