अध्यायः 266

अथ दानधर्मपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति महेश्वरादिनामनिर्वचनपूर्वकं शिवमहिमोक्तिः ॥ 1 ॥

वासुदेव उवाच ।

युधिष्ठिर महाबाहो महाभाग्यं महात्मनः ।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥
वदन्त्युग्रं महादेवं तथा स्थाणुं महेश्वरम् ।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥
उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः ।
शिवा सौम्या च या त्वस्य धर्मस्त्वापोथ चन्द्रमाः ॥
आत्मनोऽर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते ।
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा ॥
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा ।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥
देवानां सुमहान्यच्च यच्चास्य विषयो महान् ।
यच्च विश्वं जगत्पाति महादेवस्ततः स्मृतः ॥
धूम्ररूपा जटा यस्माद्धूर्जटीत्यत उच्यते ॥
स मेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥
दहत्यूध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत् ।
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः । सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोपि वा ।
चक्षुषः प्रभवं तेजः सर्वतश्चक्षुरेव तत् ॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते सह ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् । `भक्तानुग्रहणार्थाय गूढलिङ्गस्ततः स्मृतः ।'
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः ॥
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा । लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ।
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥
एष एव श्मशानेषु देवो वसति निर्दहन् ।
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः ॥
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह ।
स च वायुः शरीरेषु प्राणपालः शरीरिणाम् ॥
तस्य घोराणि रूपाणि दीप्तानि च बहुनि च ।
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥
नामधेयानि देवेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् ।
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः ॥
प्रदाता सर्वलोकानां विश्वसाक्षी निरामयः ।
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥
प्रथमो ह्येष देवानां मुखादग्निमजीजनत् ।
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥
विमोक्षयति तुष्टात्मा शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं हितं कामांश्च पुष्कलान् ॥
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः ।
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥
स एव स्थापको नित्यं त्रैलोक्यस्य शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥
महेश्वरश्च लोकानां महातामीश्वरश्च सः । बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ।
तस्य देवस्य यद्वक्त्रं समुद्रे वडंवामुखण् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥ 266 ॥

7-266-4 सा अग्निविद्युत्समप्रभेति क.ट.थ.पाठः ॥

श्रीः