अध्यायः 270

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति धर्मप्रशंसनम् ॥ 1 ॥

भीष्म उवाच ।

कार्यते यच्च क्रियते सच्चासच्च कृताकृतम् ।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥
काल एवान्तराशक्तिर्निग्रहानुग्रहौ ददत् ।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते ॥
यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात् ।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत् ॥
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् ।
कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत् ॥
यथा ह्युपस्थितैश्वर्याः पूजयन्ति नरा जनान् ।
एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः ॥
`भावशुद्धिस्तु तपसा देवतानां च मूजया । सनातनेन शुद्ध्या च श्रुतदानजपैरपि ।
न ह्यशुद्धस्तु तां दद्याद्धर्मकाले कथञ्चन ॥'
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन ।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् ।
अधर्मः सन्ततो धर्मं कालेन परिरक्षितम् ॥
कार्यावेतौ हि धर्मोणि धर्मो हि विजयावहः ।
त्रयाणामपि लोकानामालोकः कारणं भवेत् ॥
न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् । ऊह्यमानस्तु धर्मेण प्राप्नुयात्परमच्युतम् ।
विश्वास एव कर्तव्यो बहुधर्मे शुभच्छले ॥
शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने ।
इति विज्ञानमपरे नात्मन्युपदधत्युत ॥
विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः ।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् ॥
लोकधर्मे च धर्मे च विशेषकरणं कृतम् ।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः ॥
अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः ।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः ॥
सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् ।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः ॥
एवं सति न दोषोऽस्ति भूतानां धर्मसेवने ।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ॥ 270 ॥

7-270-2 प्रवर्तते प्रवर्तयति ॥ 7-270-3 धर्मार्थस्य धर्मफलस्य प्रदर्शनात् । यदा धर्म एव श्रेयस्कर इति बुद्धिर्भवेत्तदायं धर्मात्मा धर्मचित्तः धर्मे आश्वसीत विश्वासं कुर्वीत । अदृढबुद्धिस्तु न विश्वसेत् धर्मफले ॥ 7-270-4 एतावद्धर्मे विश्वासवत्त्वम् । उभयवित्कर्तव्याकर्तव्यवित् ॥ 7-270-7 धर्मः कदाप्यधर्मो न भवेदित्याह नहीति । अधर्मतया दुःखहेतुतया ॥ 7-270-8 अधर्मसन्ततौ धर्मं कुरुते परकारणात् इति क.पाठः ॥ 7-270-9 एतौ विशुद्धताऽधर्मास्पर्शौ ॥ 7-270-11 उच्यमानस्तु धर्मेण धर्मलोकभयच्छले इति झ.पाठः ॥ 7-270-14 विशेषेणेति युग्मम् । सर्वेषां प्राणिनां पाञ्चभौतिकत्वे प्रत्यक्षेपि विशेषकरणमिदं पवित्रमिदमपवित्रमिति व्यवस्थापनं लोकधर्मे शास्त्रीयधर्मे च निमित्ते सति कृतम् ॥ 7-270-15 अत्र शङ्कते अध्रुव इति । लोकस्य धर्मस्य च कार्यकारणबावात्कार्यस्याध्रुवत्वं कारणस्य ध्रुवत्वं च न युक्तं तन्तुनाशमन्तरेण पटनाशायोगादित्यर्थः । उत्तरमाह । कालः सङ्कल्पः । निष्कामधर्म एव ध्रुवस्तत्फलं नतु सकामि इत्यर्थः ॥ 7-270-16 स्वयं गुरुरिति । धर्मबलात्स्वयमेव च स उदेति शिक्षयेदित्यर्तः ॥ 7-270-17 यदि भूतानां प्राक्कर्मैव तत्रतत्र सुखदुःखसाधने प्रवर्तकमतो धर्मसेवने कर्मफलभोगे असमञ्जसेपि भूतानां दोषो नास्ति । यतः तिर्यग्योनावपि सतां विद्यमानानां भूतानां सदस्रत्प्रवृत्तौ पूर्वकर्मानुसाराल्लोक एव गुरुर्दृष्टः ॥

श्रीः