अध्यायः 026

अथ दानधर्मपर्व ॥ 1 ॥

गरुढेन गजकच्छपावासमेत्य चरणाभ्यां तयोर्ग्रहणम् ॥ 1 ॥ तथा तयोर्भक्षणाय नैमिषारण्यस्थमहातरुशाखायां वेगान्निपतनम् ॥ 2 ॥ तथा स्वनिपतनमात्रेण भज्यमानशाखाया अधोभागे लम्बमानमुनिगणावलोकनात्तुण्डेन तच्छाखाग्रहणपूर्वकं पुनरुत्पतनम् ॥ 3 ॥ तथा देवदूतवचनात्समुद्रान्ते शाखाविसर्जनेन तन्निवासिनां कुविन्दानां हननम् ॥ 4 ॥

`गरुड उवाच ।

कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ ॥
युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि ॥
कश्यय उवाच ।
योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः ।
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः ॥
जलजं निर्गतं तात प्रमत्तं चैव वारणम् ।
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते ॥
भीष्म उवाच ।
इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम् ।
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् ॥
तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः ।
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः ॥
बिभक्षयिषतो राजन्दारुणस्य महात्मनः ॥
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत् ॥
अथ वेगेन महता खेचरः स महाबलः ।
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत ॥
तथा गत्वा तमध्वानं वारणप्रवरो बली ।
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च ॥
तस्य निश्वासवातेन मदगन्धेन चैव ह ।
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः ॥
तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः ।
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव ॥
स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् ।
दन्तैर्नस्तैश्च जलजो वारयामास भारत ॥
जलजं वारणोऽप्येवं चरणैः पुष्करेण च ।
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च ॥
मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् ।
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः ॥
स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत ।
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः ॥
तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात् ।
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम् ॥
तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम् ।
उभावेव समस्तौ तु जग्राह विनतासुतः ॥
चरणेन तु सव्येन जग्राह स गजोत्तमम् ।
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् ॥
उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः ।
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः ॥
तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम् ।
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः ॥
तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ ।
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह ॥
अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते ।
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् ॥
नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः ।
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम् ॥
हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् ।
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः ॥
तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम् ।
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता ॥
तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ ।
अत्तुकामस्ततः शाखा तस्य वेगादवापतत् ॥
तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः ।
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते ॥
वैखानसान्नाम यतीन्वालखिल्यगणानपि ।
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत ॥
तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह । तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः ।
तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत् ॥
तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम् । ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह ।
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः ॥
असौ यच्छति धर्मात्मा गुरुभारसमन्वितः ।
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः ॥
एवं ते समयं सर्वे वसवश्च दिवौकसः ।
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह ॥
स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः ।
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत ॥
स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः ।
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च ॥
वैनतेय कुविन्देषु समुद्रान्ते महाबल ।
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः ॥
तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः ।
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः ॥
ततो गत्वा ततः शाखां मुमोच पततांवरः ।
तया हता ********* दास्तदा षड्विंशतो नृप ॥
स देशो राजशार्दूल ख्यातः परमदारुणः । शाखापतग इत्येव कुविन्दानां महात्मनाम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

7-26-36 तुण्डेन शाखां गृहीत्वा कश्यपसमीपं गते गरुडे शाखाया अधोभागलम्बिनामृषीणां कस्यपप्रार्थनया शाखाविसर्जनेन हिमवद्गिरिगमनमादिपर्वोक्तमत्रानुसन्धेयम् ॥

श्रीः