अध्यायः 028

अथ दानधर्मपर्व ॥ 1 ॥

गरुडेन नवनीतप्रक्षेपेण मन्दीभूताभ्युल्लङ्घनपूर्वकममृतरक्षिणां पक्षप्रहारेण निराकरणम् ॥ 1 ॥ तथाऽमृतमाहृत्य विमति समुत्पतनम् ॥ 2 ॥ तथा स्वस्योपरि इन्द्रेण वज्रे विसृष्टे तत्सन्माननायैकतनूरुहविस्रंसनम् ॥ 3 ॥

`भीष्म उवाच ।

पितामहवचः श्रुत्वा गरुडः पततांवरः ।
जगाम गोकुलं किञ्चिन्नवनीतजिहीर्षया ॥
नवनीतं तथाऽपश्यन्मथितं कलशे स्थितम् ।
तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम् ॥
स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः ।
हुताशनमपक्रम्य नवनीतमपातयत् ॥
सो र्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन तर्पितः ।
धूमकेतुर्न जज्वाल धूममेव ससर्ज ह ॥
तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम् ।
रक्षांसि समतिक्रामत्पक्षवातेन पातयन् ॥
ते पतन्ति शिरोभिस्च जानुभिश्चरणैस्तथा ।
उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः ॥
उत्प्लुत्य चावृतान्नागान्हत्वा चक्रं व्यतीत्य च ।
अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् ॥
स भित्त्वा शिरसा जालं वज्रवेगसमो बली ।
उज्जहार ततः शीघ्रममृतं भुजगाशनः ॥
तदादायाद्रवच्छीघ्रं गरुडः श्वसनो यथा ।
अथ सन्नाहमकरोद्वृत्रहा विबुधैः सह ॥
ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः ।
आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् ॥
सोऽभ्यद्रवत्पक्षिराजं वृत्रहा पाकशासनः ।
उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः ॥
तथैव गरुडो राजन्वज्रहस्तं समाद्रवत् ।
ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः ॥
अथ दिव्यं महाघोरं गरुडाय ससर्ज ह ।
वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः ॥
उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम् ।
तूर्णं वेगपरो भूत्वा जगाम पततांवरः ॥
पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः ।
आयुधानां वरं वज्रमथ शक्रमुवाच ह ॥
वृत्रहन्नेष वज्रस्ते वरो लब्धः पितामहात् ।
अतः सम्मानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम् ॥
एतेनायुधराजेन यदि शक्तोसि वृत्रहन् ।
हन्यास्त्वं परया शक्तया गच्छाम्यहमनामयः ॥
तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत ।
जघान परया शक्त्या न चैनमदहद्भृशम् ॥
ततो देवर्षयो राजन्गच्छन्तो वै विहायसा ।
दृष्ट्वा वज्रं विवक्तं तं पक्षइपर्णेऽब्रुवन्वचः ॥
सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् ।
विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् ॥
एवं सुपर्णो विहगो वैनतेयः प्रतापवान् ।
ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः ॥
वेदाभिष्टुतमत्यर्थं स्वर्गमार्गफलप्रदम् ।
तनुपर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा ॥
मयूराविस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

श्रीः