अध्यायः 030

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणाय प्रतिश्रुतार्थाप्रदानस्यानर्थहेतुतायां दृष्टान्ततया सृगालवानरसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।
न प्रयच्छन्ति लोभात्ते के भवन्ति महामते ॥
एतन्मे तत्वतो ब्रूहि धर्मे धर्मभृतांवर ।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥
भीष्म उवाच ।
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति ।
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ॥
यच्च तस्य हुतं किञ्चिद्दत्तं वा भरतर्षभ ।
तपस्तप्तमथो वाऽपि सर्वं तस्योपहन्यते ॥
अथैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।
निशास्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः ।
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृगालस्य च संवादं वानरस्य च भारत ॥
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप । अन्यां योनिं समापन्नौ सृगालीं वानरीं तथा ।
सम्भाषणात्ततः सख्यं तत्रतत्र परस्परम् ॥
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥
किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम् ।
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम् ॥
तत्कृते पापिकां योनिमापन्नोस्मि प्लवङ्गम ।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥
भीष्म उवाच ।
सृगालो वानरं प्राह पुनरेव नरोत्तम ।
किं त्वया पातकं कर्म कृतं येनासि वानरः ॥
वानर उवाच ।
स चाप्याह फलाहारो ब्राह्मणानां प्लवङ्गमः । तस्मान्न ब्राह्मणस्वं तु हर्त्तव्यं विदुषा सदा ।
सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम् ॥
भीष्म उवाच ।
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥
श्रुतं चापि मया भूयः कृष्णस्यापि विशांपते ।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः ।
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि ॥
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै ।
प्रतिश्रुतं भवेद्देयं नाशा कार्या द्विजोत्तमे ॥
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।
सुसमिद्धो यता दीप्तः पावकस्तद्विधः स्मृतः ॥
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया ।
प्रदहेच्च हितं राजन्कक्षमक्षय्यभुग्यथा ॥
स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।
भवत्यगदसंकाशो विषये तस्य भारत ॥
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत् ॥
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।
सहस्रकिरणस्येव सवितुर्धरणीतले ॥
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया ॥
इतो दत्तेन जीवन्ति देवताः पितरस्था ।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।
वेलायां न तु कस्यां चिद्गच्छेद्विप्रो ह्यपूजितः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

7-30-6 निशाम्य विचार्य ॥ 7-30-10 ततः पुरा सखायं तं सृगालमिति थ.ध.पाठः ॥ 7-30-16 ब्रुवतोऽध्यापकस्य कथां कथयतो मुखात् श्रुतम् ॥ 7-30-17 कृष्णस्य व्यासस्य । नृगकथां कथयतो वासुदेवस्य वा मुखात् ॥ 7-30-19 आशा वन्ध्याशा ॥ 7-30-21 अक्षय्यं पित्रर्थमुद्दिष्टं दानं भुङ्क्ते इत्यक्षय्यभुगग्निः ॥ 7-30-22 अगदसंकाशः चिकित्सकतुल्यः ॥ 7-30-23 शान्तिरिष्टेन शान्त्याहितेन क्षेमेण ॥ 7-30-30 त्रिंशोऽध्यायः ॥

श्रीः