अध्यायः 033

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्टिरम्प्रति कृतघ्नस्य प्रायश्चित्तविषये दृष्टान्ततया वत्सनाभमुनिचरित्रकथनम् ॥ 1 ॥

`युधिष्ठिर उवाच ।

प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह ।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः ॥
ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः ।
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः ॥
भीष्म उवाच ।
कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः । मातापितृगुरूणां च ये न तिष्ठन्ति शासने ।
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च ॥
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः ।
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः ॥
तस्मिंश्च तप्यति तपो वासवो भरतर्षभ ।
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान् ॥
तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः ।
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः ॥
तस्मिन्पतति वर्षे तु शीतवातसमन्विते ।
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः ॥
ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि ।
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत् ॥
चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम् ।
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा ॥
स्वं रूपं माहिषं कृत्वा ********* मनोहरम् ।
रक्षार्थं वत्सनामस्य चतुष्पादुपरिस्थितः ॥
यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम् । ततो महिषरुपेण धर्मो धर्मभृतांवर ।
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ ॥
स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः ।
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च ॥
दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् ।
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत् ॥
अचिन्तयद्विस्मितश्चि विप्रः प्रमुदितोऽभवत् ॥ अचिन्तयद्विस्तितश्च वर्षात्केनाभिरक्षितः ।
ततोऽपश्यत्स महिषमवस्थितमदूरतः ॥
तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः ॥
अतो नु भद्रमहिषः शिलापट्टमवस्थितः ।
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम् ॥
तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः ।
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः ॥
निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन ।
क्रते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा ॥
अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् ।
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः ॥
आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम् ।
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत ॥
स मेरुशिखरं गत्वा निस्यङ्केनान्तरात्मना । प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः ।
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित् ॥
धर्मि उवाच ।
वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष ।
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः ॥
एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् ।
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः ॥
यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः ।
निवर्तस्व महाप्राज्ञ् पूतात्मा ह्यसि शाश्वतः' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

7-33-17 बल्यः बलिकर्मार्हः । पीवरश्चैव वध्यश्वेति पाठान्तरम् ॥

श्रीः