अध्यायः 037

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्रह्मादिसर्वजगतामनित्यत्वादिकथनपूर्वकं नारायणस्य नित्यत्वादिकथनेन तदुपासनविधानम् ॥ 1 ॥

`भीष्म उवाच ।

सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥
को राज्यं विपुलं गृह्य स्फीताकारं पुनर्महत् ।
निर्जितारातिसामन्तं देवराज्योपमं सुखम् ॥
राज्ये राज्यगुणा ये च तान्व्युदस्य नराधिप ।
दोषं पश्यति राजेन्द्र देहेऽस्मिन्पाञ्चभौतिके ॥
अतिक्रान्तास्त्वया राजन्वृत्तेन प्रपितामहाः ।
धर्मो विग्रहवान्धीरो विदुरश्च महायशाः ॥
सञ्जयश्च महातेजा ये चान्ये दिव्यदर्शनाः ।
प्रवृत्तज्ञानसम्पन्नास्तत्वज्ञानविदो नृप ॥
तेऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः ।
अनित्यं दुःखसंतप्तं जगदेतन्न संशयः ॥
एवमेतान्महाबाहो ब्रह्माद्यान्ससुरासुरान् ।
अनित्यान्सततं पश्य मनुष्यादिषु का कथा ॥
नित्यां तु प्रकृतीमाह याऽसौ प्रसवधर्मिणी ।
अरूपिणीमनिर्देश्यामकृतां पुरुषातिगाम् ॥
तामत्यन्तसुखां सौम्यां निर्वाणमिति संज्ञिताम् ।
आहुर्ब्रह्मर्षयो ह्याद्यां भुवि चैव महर्षयः ॥
तया पुरुषरूपिण्या धर्मप्रकृतिकोऽनघ ।
स यात्येव हि निर्वाणं यत्तत्प्रकृतिसंज्ञितम् ॥
स एष प्राकृतो धर्मो भ्राजत्यादियुगे नृप । विकारधर्माः शेषेषु युगेषु भरतर्षभ ।
भ्राजन्तेऽभ्यधिकं वीर संसारपथगोचराः ॥
प्रकृतीनां च सर्वासामकृता प्रकृतिः स्मृता ।
एवं प्रकृतिधर्मा हि वरां प्रकृतिमाश्रिता ॥
पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् ।
सत्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे ॥
कामं कामयमानेषु ब्राह्मणेषु तिरोहितः । कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव ।
जातो मन्दप्रचारो हि धर्मः कलियुगे नृप ॥
नित्यस्तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः ।
ब्रह्माद्या अपि देवाश्च यं सदा पर्युपासते ॥
तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् ।
तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् ॥
कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते ।
तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् ॥
इत्येतद्विष्णुमाश्रित्य संसारग्रहमोक्षणम् । कथितं ते महाबाहो किं भूयः श्रोतुमिच्छसि ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

7-37-3 देहेऽस्मिन्पञ्चविंशक इति ट. थ. ध. पाठः ॥

श्रीः