अध्यायः 038

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति तत्वसृष्ट्यादिप्रतिपादकनारदसनत्कुमारसंवादानुवादः ॥ 1 ॥

`युधिष्ठिर उवाच ।

क्लिश्यमानेषु भूतेषु जातीमरणसागरे ।
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सनत्कुमारस्य सतः संवादं नारदस्य च ॥
सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः ।
पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः ॥
सनकः सनन्दनश्चैव तृतीयश्च सनातनः ।
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः ॥
चतुर्थश्चैव तेषां स भगवान्योगवित्तमः ।
सनत्कुमार इति वै कथयन्ति महर्षयः ॥
हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः ।
षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृत् ॥
ततोऽपरे समुत्पन्नाः पावकादारुणे क्रतौ ।
मनसा स्वयंभुवो हीमे मरीचिप्रमुखास्तथा ॥
भुगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा ।
अनुजोङ्गिरसोऽथात्रिः पुलस्त्योत्रेस्तथाऽनुजः ॥
पुलस्त्यस्यानुजो विद्वान्पुलहो न महाद्युतिः ।
पठ्यन्ते ब्रह्मजा ह्येते विद्वद्बिरमितौजसः ॥
सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान् ।
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः ॥
मूर्तिमन्तोऽमृतीभूतास्तेजसाऽतितपोन्विताः । सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम् ।
कृत्स्नं क्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात् ॥
सनत्कुमारस्तु विभुर्योगमास्थाय योगवित् ।
त्रीँल्लोकानचरच्छश्वदैर्येण परेण हि ॥
रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः ।
सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम ॥
मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते ।
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे ॥
सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः ।
सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः ॥
इतिहासपुराणे च श्रुतिरेषा सनातनी ।
ब्राह्मणा वरदानेतान्प्राहुर्वेदान्तपारगाः ॥
एतेषां पितरस्तात पुत्रा इत्यनुचक्षते ।
गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा ॥
पितृणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः ।
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम ॥
कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव त ।
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम् ॥
गौतमादपि कौण्डिन्याद्बारद्वाजात्तथैव च ।
मार्कण्डेयात्तथैवैतदृषेर्देवमतादपि ॥
पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् ।
परं रहस्यं वेदान्तं प्रियं हि परमात्मनः ॥
अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारतः । तदिहैकमनोबुद्धिः शृणुष्वावहितो नृप ।
स्वायंभुवस्य संवादं नारदस्य च धीमतः ॥
सनत्कुमारो भगवान्दिव्यं जज्वाल तेजसा ।
अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः ॥
स कदाचिन्महाभागो मेरुपृष्ठं समागमत् ।
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना ॥
जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः ।
ब्रह्म भागवतौ तात परमार्थार्थचिन्तकौ ॥
मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम् ।
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानमत्तमम् ॥
सनत्कुमारं तत्वज्ञं भगवन्तमरिंदम । लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम् ।
सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् ॥
साङ्ख्ययोगं च यो वेद पाणावामलकं यथा ।
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः ॥
नारद उवाच ।
त्रयोविंशतितत्वस्य अव्यक्तस्य महामुने ।
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्वतः ॥
अध्यात्ममधिभूतं च अधिदैवं तथैव च । कालसङ्ख्याश्च सर्गं च स्रष्टारं पुरुषं प्रभुम् ।
यं विस्वमुपजीवन्ति येन सर्वमिदं ततम् ।
यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति ॥
सनत्कुमार उवाच ।
यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् ।
तं वै शृणु महाबुद्धे नारायणमनामयम् ॥
एष नारायणो नाम यं विश्वमुपजीवति ।
एष स्रष्टा विधाता च भर्ता पालयिता प्रभुः ॥
प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः ।
एतावदेव वक्तव्यं मया नारद पृच्छते ॥
परं न वेद्मि तत्सर्गं यावांश्चायं यथाप्यहम् ।
श्रूयतामानुपूर्व्येण न च सर्गः प्रयत्नतः ॥
यथा कालपरीमाणं तत्वानामृषिसत्तम । अध्यात्ममधिभूतं च अधिदैवं तथैव च ।
कालसंख्यां च सर्गं च सर्वमेव महामुने ॥
तमसः कुर्वतः सर्गं तामसो ह्यभिधीयते ।
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः ॥
पर्यायनामान्येतस्य कथयन्ति मनीषिणः ।
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥
महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा । वेदास्तपांसि यज्ञाश्च धर्माश्च भगवान्विभुः ।
प्राणः सांवर्तकोग्निश्च व्योम कालस्तथैव च ॥
नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै ।
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुसारतः ॥
चतुर्युगसहस्राणि चतुर्युगमरिंदम ।
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्वदर्शिनः ॥
दशकल्पसहस्राणि अव्ययस्य महानिशा ।
तथैव दिवसं प्राहुर्योगाः सांख्याश्च तत्वतः ॥
निशासुप्तोथ भगवान्क्षपान्ते प्रत्यबुध्यत ।
पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
अहंकृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः ॥
हिरण्यगर्भं विस्वात्मा ब्रह्माणां जलवन्मुनिम् । भूतभव्यभविष्यस्य कर्तारमनघं विभुम् ।
मूर्तिमन्तं महात्मानं विश्वशभुं स्वयंभुवम् ॥
अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां नरम् ।
चक्रे तिरोधां भगवानेत्कृत्वा महायशाः ॥
एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः ।
पञ्चकल्पसहस्राणि अहरेतावदेव च ॥
स सर्गं कुरुत ब्रह्मा तामसश्चानुपूर्व्यशः ।
सृजतेऽहं त्वहंकारं परमेष्ठिनमव्ययम् ॥
अहङ्कारेणैव लोका व्याप्ताः साहंकृतेन वै ।
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे ॥
देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः ।
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च ॥
एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः ।
त्रीणि कल्पसहस्राणि अहरेतावदेव तु ॥
अहङ्कारस्तु सृजति महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
एतेषां गुणतत्वानि पञ्च प्राहुर्द्विजातयः ।
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च ॥
गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः ।
नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे ॥
एतेषामिह वै सर्वं चतुर्थमिह कुर्वतः ।
चतुर्युगसहस्रे वै अहोरात्रास्तथैव च ॥
अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते ।
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् ॥
मनः सर्वमिदं तात विश्वं सर्वमिदं जगत् ।
न तथान्यानि भूतानि बलवन्ति यथा मनः ॥
एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः ।
अहः कल्पसहस्रं वै रात्रिरेतावती तथा ॥
ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः ।
अष्टमं चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः ॥
एतानि नव सर्गाणि तत्वानि च महामुने ।
चतुर्विंशतितत्वानि तत्वसंख्यानि तेऽनघ ॥
सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः । अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने ।
प्रवक्ष्याम्यपरं तत्वं यस्य यस्येश्वरश्च यः ॥
अध्यात्ममधिभूतं च अधिदैवं तथैव च । यथाश्रुतं यथादृष्टं तत्वतो वै निबोध मे ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

श्रीः