अध्यायः 040

अथ दानधर्मपर्व ॥ 1 ॥

ब्रह्मणा देवान्प्रति नारायणमहिमप्रतिपादकगरुडकश्यपसंवादानुवादः ॥ 1 ॥

`युधिष्ठर उवाच ।

आत्मन्यग्नौ समाध्नाय य एते कुरुनन्दन ।
द्विजातयो व्रतोपेता जपयज्ञपरायणाः ॥
यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः ।
अग्निभ्यश्च परं नास्ति येषामेषोऽव्यवस्थितः ॥
तेषां गतिर्महाप्राज्ञ कीदृशी किम्पराश्च ते ।
एतदिच्छामि तत्वेन त्वत्तः श्रोतुं पितामह ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
वैकुण्ठस्य च संवादं सुपर्णस्य च भारत ॥
अमृतस्य समुत्पत्तौ देवानामसुरैः सह । षष्टिवर्षसहस्राणि दैवासुरमवर्तत ।
तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः ।
त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः ॥
आर्तास्ते देवदेवेशं प्रपन्नाः शरणैषिणः ।
पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः ॥
ता दृष्ट्वा देवता ब्रह्मा सम्भ्रान्तेन्द्रियमानसः ।
वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह ॥
ततः स देवैः सहितः पद्मयोनिर्नरेश्वर ।
तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम् ॥
त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि ।
तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः ॥
भक्तवत्सल पद्माक्ष परमेश्वर पापहन् ।
परमात्माऽविकाराद्य नारायण नमोंस्तु ते ॥
नमस्ते सर्वलोकादे सर्वात्मामितविक्रम । सर्वभूतभविष्येश सर्वभूतमहेश्वर
देवानामपि देवस्त्वं सर्वविद्यापरायणः ।
जगद्वीजसमाहार जगतः परमो ह्यसि ॥
त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः ।
लोकांश्च लोकपालांश्च ऋषींश्च जयतांवर ॥
वेदाः साङ्गोपनिषदः सरहस्याः ससङ्ग्रहाः ।
सोङ्काराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम् ॥
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।
तपस्विनां तपश्चैव दैवतं देवतास्वपि ॥
एवमादिपुरस्कारैर्ऋक्सामयजुषां गणैः ।
वैकुण्ठं तुष्टुवुर्देवाः सर्वे ब्रह्मर्षिभिः सह ॥
ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना ।
जेष्यध्वं दानवान्यूयं मयैव सह सङ्गरे ॥
ततो देवगणानां च दानवानां च युध्यताम् ।
प्रादुरासीन्महातेजाः शार्ङ्गचक्रगदाधरः ॥
सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव ।
व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा ॥
तं समासाद्य समरे दैत्यदानवपुङ्गवाः ।
व्यनश्यन्त महाराज पतङ्गा इव पावकम् ॥
स विजित्यासुरान्सर्वान्दानवांश्च महामतिः ।
पश्यतामेव देवानां तत्रैवान्तरधीयत ॥
तं दृष्ट्वान्तर्हितं देवा विष्णुं देवामितद्युतिम् ।
विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन् ॥
भगवन्सर्वलोकेश सर्वलोकपितामह ।
इदमत्यद्भुतं वृत्तं तन्नः शंसितुमर्हसि ॥
दैवासुरेऽस्मिन्सङ्ग्रामे त्राता येन वयं विभो ।
एतद्विज्ञातुमिच्छामः कुतोसौ कश्च तत्वतः ॥
कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम् ।
प्रतिप्रयातो दिव्यात्मा तं नः शंसितुमर्हसि ॥
एवमुक्तः सुरैः सर्वैर्वचनं वचनार्थवित् ।
उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो ॥
ब्रह्मोवाच ।
न ह्येनं वेद तत्वेन भुवनं भुवनेश्वरम् ।
सङ्ख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् ॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
सुपर्णस्य च संवादमृषीणां चापि देवताः ॥
पुरा ब्रह्मर्षयश्चैव सिद्दाश्च भुवनेश्वरम् ।
आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः ॥
तेषां कथयतां तत्र कथान्ते पततां वरः ।
प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः ॥
स तानृषीन्समासाद्य विनयावनताननः ।
अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान् ॥
अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः ।
उपाविशत तेजस्वी भूमौ वेगवतां वरः ॥
तमासीनं महात्मानं वैनतेयं महाद्युतिम् ।
ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः ॥
कौतूहलं वैनतेय परं नो हृदि वर्तते ।
तस्य नान्योस्ति वक्तेह त्वामृते पन्नगाशन ॥
तदाख्यातमिहेच्छामो भवता प्रश्नमुत्तमम् ।
एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः ॥
धन्योस्म्यनुगृहीतोस्मि यन्मां ब्रह्मर्षिसत्तमाः ।
प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः ॥
किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः ।
यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुमर्हथ ॥
नमस्कृत्वा ह्यनन्ताय ततस्त ऋषिसत्तमाः ।
प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम् ॥
देवदेवं महात्मानं नारायणमनामयम् ।
भवानुपास्ते वरदं कुतोऽसौ कश्च तत्वतः ॥
प्रकृतिर्विकृतिर्वाऽस्य कीदृशी क्वनु संस्थितिः ।
एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः ॥
एथ भक्तप्रियो देवः प्रियभक्तस्तथैव च ।
त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते ॥
मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः ।
अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ ॥
वेदेष्वपि च विश्वात्मा गीयते न च विद्महे ।
तत्वतस्तत्वभूतात्मा विभुर्नित्यः सनातनः ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
गुणाश्चैषां यथासङ्ख्यं भावाभावौ तथैव च ॥
तमः सत्वं रजश्चैव भावाश्चैव तदात्मकाः । मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्वतः ।
जायन्ते तात तस्माद्धि तिष्ठते तेष्वसौ विभुः ॥
सञ्चिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् ।
तस्य देवस्य तत्वेन तन्नः शंस यथातथम् ॥
एतमेव परं प्रश्नं कौतूहलसमन्विताः ।
एवं भवन्तं पृच्छामस्तन्नः शंसितुमर्हसि ॥
सुपर्ण उवाच ।
स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना ।
त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः ॥
मया तु महदाश्चर्यं पुरा दृष्टं सनातने ।
देवे श्रीवत्सनिलये तच्छृणुध्वमशेषतः ॥
न स्म शक्यो मया वेत्तुं न भवद्भिः कथञ्चन ।
यथा मां प्राह भगवांस्तथा तच्छ्रुयतां मम ॥
मयाऽमृतं देवतानां मिषतामृषिसत्तमाः ।
हृतं विपाट्य तं यन्त्रं विद्राव्यामृतरक्षिणः ॥
देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे ।
उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिं ॥
तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी । प्रीतोस्मि ते वैनतेय कर्मणाऽनेन सुव्रत ।
अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते ॥
तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा । ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम् ।
प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोपि वा ॥
ततो जलदगम्भीरं प्रहस्य वदतांवरः ।
उंवाच वरदः प्रीतः काले त्वं माऽभिवेत्स्यसि ॥
वाहनं भव मे साधो वरं दद्मि तवोत्तमम् ।
न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति ॥
पतङ्ग पततांश्रेष्ठ न देवो नापि दानवः ।
मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि ॥
तमब्रवं देवदेवं मामेवंवादिनं परम् ।
प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम् ॥
एवमेतन्महाबाहो सर्वमेतद्भविष्यति ।
वाहनं ते भविष्यामि यथा वदति मां भवान् ॥
मम चापि महाबुद्धे निश्चयं श्रूयतामिति ।
ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः ॥
तथास्त्विति स मामुक्त्वा भूयः प्राह महामनाः ।
न ते गतिविघातोऽद्य भविष्यत्यमृतं विना ॥
एवं कृत्वा तु समयं देवदेवः सनातनः ।
मामुक्त्वा साधयस्वेति यथाऽभिप्रायतो गतः ॥
ततोऽहं कृतसंवादो येन केनापि सत्तमाः ।
कौतूहलसमाविष्टः पितरं कश्यपं गतः ॥
सोहं पितरमासाद्य प्रणिपत्याभिवाद्य च ।
सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके ॥
श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत ।
स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः ॥
धन्योस्यनुगृहीतश्च यत्त्वं तेन महात्मना ।
संवादं कृतवांस्तात गुह्येन परमात्मना ॥
स्थूलदृश्यः स भगवांस्तेन तेनैव हेतुना ।
दृश्यतेऽव्यक्तरूपस्थः प्रधानप्रभवाप्ययः ॥
मया हि स महातेजा नान्ययोगसमाधिना ।
तपसोग्रेण तेजस्वी तोषितस्तपसांनिधिः ॥
ततो मे दर्शयामास तोषयन्निव पुत्रक ।
श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः ॥
रक्तनीलासितनिभः सहस्रोदरपाणिमान् ।
द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः ॥
अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा ।
तमुपासन्ति परमं गुह्यमक्षरमव्ययम् ॥
समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च ।
ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः ॥
महामेघौघधीरेण स्वरेण जयतांवरः ।
आभाष्य पुत्रपुत्रेति इदमाह धृतं वचः ॥
त्वयाऽभ्युदयकामेन तपश्चीर्णं महामुने ।
अमुक्तस्त्वं समासङ्गैरविमुक्तोऽद्य पश्यसि ॥
यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः ।
भविष्यसि सदा ब्रह्म मामनुध्यास्यसे द्विज ॥
ऐकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः ।
ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्वतः ॥
तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा । विश्वरूपेण देवेन पुरुषेण महात्मना ।
तमेवाराधय क्षिप्रं तमाराध्य न सीदसि ॥
सोहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः । अनुनीतो यथान्यायं स्वमेव भवनं गतः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

श्रीः