अध्यायः 042

अथ दानधर्मपर्व ॥ 1 ॥

ब्रह्मणा देवान्प्रति श्रीनारायणमहिमप्रतिपादकगरुडमुनिगणसंवादानुवादः ॥ 1 ॥

`सुपर्ण उवाच ।

एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः ।
नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा ॥
स शनैर्याति भगवान्गत्या लघुपराक्रमः ।
अहं तु सुमहावेगमास्तायानुव्रजामि तम् ॥
स गत्वा दीर्घमध्वानमाकाशममितह्युतिः ।
मनसाऽप्यगमं देवमाससादात्मतत्ववित् ॥
अथ देवः समासाद्य मनसः सदृशं जवम् ।
मोहयित्वा च मां तत्र क्षणेनान्तरधीयत ॥
तत्राम्बुधरधीरेण भोशब्देनानुनादिना ।
अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः ॥
शब्दानुसारी तु ततस्तं देशमहमाव्रजम् ।
तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः ॥
स तत्सरः समासाद्य भगवानात्मवित्तमः ।
भोशब्दप्रतिसृष्टेन स्वरेण प्रतिवादिना ॥
विवेश देवः स्वां योनिं मामिदं चाभ्यभाषत ।
विशस्व सलिलं सौम्य सुखमत्र वसामहे ॥
ततश्च प्राविशं तत्र सह तेन महात्मना ।
दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम् ॥
अग्नीनामप्रणीतानामिद्धानामिन्धनैर्विना ।
दीप्तानामाज्यसिक्तानां स्यानेष्वर्चिष्मतां सदा ॥
दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत् ।
अनिद्धानामिव सतामिद्धानामिव भास्वताम् ॥
अथाहं वरदं देवं नापश्यं तत्र सङ्गतम् ।
ततः सम्मोहमापन्नो विषादभगमं परम् ॥
अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः ।
विधिना सम्प्रणीतानि धिष्ण्येष्वाज्यवतां तदा ॥
असंभृष्टतलाश्चैव वेदीः कुसुमसंस्तृताः ।
कुशपद्मोत्पलासङ्गाः कलशांश्च हिरण्मयान् ॥
अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः । अग्निहोत्राय योग्यानि यानि द्रव्याणि कानिचित् ।
तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः ॥
मनोहृद्यतमश्चाग्निः सुरभिः पुण्यलक्षणः ।
आज्यगन्धो मनोग्राही घ्राणचक्षुस्सुखावहः ॥
तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः ।
समीपे त्वद्भुततममपश्यमहमव्ययम् ॥
चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् । विमलादित्यभासानां स्थण्डिलानि सहस्रशः ।
दृष्टान्यग्निसमीपे तु ध्युतिमन्ति महान्ति च ॥
एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः । प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम् ।
ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः ॥
सुसंमृष्टतलैस्तैस्तु बृहद्बिर्दीप्ततेजसैः ।
पावकैः पावितात्माहमभवं लघुविक्रमः ॥
ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् ।
तं देशं प्रणमित्वाऽथ अन्वेष्टुमुपचक्रमे ॥
तान्यनेकसहस्राणि पर्यटंस्तु महाजवात् ।
अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम् ॥
ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु ।
भानुमत्सु न पश्यामि देवदेवं सनातनम् ॥
ततोऽहं तानि दीप्तानि परीय व्यस्थितेन्द्रियः ।
नान्तं तेषां प्रपश्यामि खेदश्च सहसाभवत् ॥
विसृत्य सर्वतो दृष्टिं भयमोहसमन्वितः ।
श्रमं परंममापन्नश्चिन्तयानस्त्वचेतनः ॥
तस्मिन्न खलु वर्तेऽहं लोके यत्रैतदीदृशम् ।
ऋग्यजुस्सामनिर्घोषः श्रूयते न च दृश्यते ॥
न च पश्यामि तं देवं येनाहमिह चोदितः ।
एवं चिन्तासभापन्नः प्रध्यातुमुपचक्रमे ॥
ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः ।
महाशब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः ॥
अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् ।
अपश्यं च सुपर्णानां सहस्राण्ययुतानि च ॥
अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः ।
तेषामहं प्रभावेण सर्वथैवावरोऽभवम् ॥
सोऽहं समन्ततः सर्वैः सुपर्णैरतितेजसैः ।
दृष्ट्वाऽऽत्मानं परिगतं सम्भ्रमं परमं गतः ॥
विनयावनतो भूत्वा नमश्चक्रे महात्मने ।
अनादिनिधनायैभिर्नामभिः परमात्मने ॥
नारायणाय शुद्धाय शाश्वताय ध्रुवाय च ।
भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥
शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च ।
घोररूपाय महते युगान्तकरणाय च ॥
विश्वाय विश्वदेवाय विश्वेशाय महात्मने ।
सहस्रोदरपादाय सहस्रनयनाय च ॥
सहस्रबाहवे चैव सहस्रवदनाय च ।
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥
ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः ।
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥
बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे ।
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥
हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे ।
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥
गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते ।
सम्म्राडुग्रे संकृतये विरजे सम्भवे भवे ॥
वृषाय वृषरूपाय विभवे भूर्भुवाय व ।
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥
अच्युताय तुषाराय वीराय च समाय च ।
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥
सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने ।
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥
किरीटिने सुकेशाय वासुदेवाय शुष्मिणे ।
बृहदुक्थ्यसुषेणाय युग्ये दुन्दुभये तथा ॥
भयेसखाय विभवे भरद्वाजेऽभयाय च ।
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥
पुनर्वसुभृतत्वाय जीवप्रभविषाय च ।
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥
ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः ।
श्रीपद्मायात्मसदृशे धरणीधारिणे परे ॥
सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः ।
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥
केशवाय सुकेशाय रश्मिकेशाय भूरिणे ।
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥
नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे । वर्मिणे वृषसेनाय धर्मसेनाय रोधसे ।
मुनये ज्वरमुक्तायि ज्वराधिपतये नमः ॥
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे ।
तपोब्रह्मनिधानाय युगपर्यायिणे नमः ॥
शरणाय शरण्याय भक्तेष्टशरणाय च ।
नमः सर्वभवेशाय भूतभव्यभवाय च ॥
पाहि मां देवदेवेश कोप्यजोसि सनातनः ।
एवं गतोस्मि शरणं शरण्यं ब्रह्मयोनिनम् ॥
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत ।
भयं च मे व्यपगतं पक्षिणोऽन्तर्हिताऽभवन् ॥
शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम् । मा भैर्गरुत्मन्दान्तोसि पुनः सेन्द्रान्दिवौकसः ।
स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् ॥
ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः ।
प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके ॥
समागम्य ततस्तेन शिवेन परमात्मना । अपश्यं चाहमायान्तं नरनारायणाश्रमे ।
चतुर्द्विगुणविन्यासं तं च देवं सनातनम् ॥
यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन् ।
युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहे ॥
पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् ।
वन्दितं सिक्तसम्मृष्टं नरनारायणाश्रमम् ॥
तदद्भुतमहं दृष्ट्वा विस्मितोस्मि तदाऽनघाः ।
जगाम शिरसा देवं प्रयतेनान्तरात्मना ॥
तदत्यद्भुतसङ्कासं किमेतदिति चिन्तयन् ।
नाध्यगच्छं परं दिव्यं तस्य सर्वभवात्मनः ॥
प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च । शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः ।
अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम् ॥
नमस्ते भगवन्देव भूतभव्यभवत्प्रभो ।
यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम् ॥
अनादिमद्यपर्यन्तं किं तच्छंसितुमर्हसि । यदि जानासि सां भक्तं यदि वाऽनुग्रहो मयि ।
शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया ॥
स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च ।
भवद्भूतभविष्येश सर्वथा गहनं भवान् ॥
ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने ।
किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः ॥
कानि तान्यग्निहोत्राणि केषां शब्दः श्रुतो मया ।
शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम् ॥
एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः । गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

श्रीः